________________
पष्ठोऽधः । देवि! नेयं कर्मोपयुक्तं पुरुषमुपनयति, किन्तु अकर्तारमभोतारमीश्वरम् । नचासावीश्वरः कर्मसूपयुज्यते । अथापरेणोक्तम्-अथ किं लौकिकात् पुरुषादन्य ईश्वरो नामास्ति । ततस्तेन विहस्य पुनरुक्तम् - अस्ति । तथाहि - एकः पश्यति चेष्टितानि जगतामन्यस्तु मोहान्धधी__ रेकः कर्मफलानि वाञ्छति ददात्यन्यस्तु तान्यर्थिने । एकः कर्मसु शिष्यते तनुभृतां शास्तैव देवोऽपरो
निःसङ्गः पुरुषः कियासु स कथं कर्तति सम्भाव्यते ॥ भट्टाचार्येणाभिहितमित्यर्थः । तदेव विशदयति-देवि! नेयमित्यादिना। हे मीमांसे ! इयमुपनिषन्न कर्मनिर्वहणचणं पुरुषं प्रतिष्ठापयति । किन्तु ताद्विपरीतमसङ्गोदासीनसुखस्वरूपमीश्वरम् । अतो भाष्यकारस्यापि युक्तिभिर्ना स्तिकपक्षं प्रतिक्षिपतो युक्तिकुशलस्य देहव्यतिरिक्तात्मास्तित्वमेवामिप्रेतम् । अन्यथा कर्मस्वरूपस्यैवासिद्धिप्रसङ्ग इति भावः । एवं तावद् विशुद्धविज्ञानशारीरः श्रेयःप्राप्तिहेतुरस्मच्छरीरोन्द्रियसङ्घाताद् विलक्षणो वेदान्तनिषेवणेनावगम्यनिजरूपः सर्वज्ञ ईश्वरोऽस्तीत्येवं कुमारिलस्वामिनोक्तम् । तदुपश्रुत्यासहमानो गुरुद्रोही प्राभाकरः प्रत्यवतिष्ठते- अथेत्यादिना । अपरेण प्रामा करेण । कर्तृत्वादिरूपेण लोकप्रसिद्धस्वभावात् पुरुषादन्यः कश्चिदीश्वरो नास्त्यनुपलब्धेरेवेत्युक्तं तेनेत्यर्थः । एवमप्रणतगुरुचरणकन्धरस्य स्वयंगुरोः प्राभाकरस्य पाण्डित्यलालित्यमालक्ष्य सोपहासं भट्टपादैरभिहितमित्याहततस्तेनेत्यादिना।
प्रसिद्धपुरुषादन्य ईश्वरोऽस्तीत्युक्तं, तदेव दर्शयति - तथाहि एकः पश्यतीत्यादिना । जगतां जनानाम् । चेष्टितानि कर्माणि । पश्य. त्युपलभते । तदनुकूलं फलं च प्रयच्छति । स च नियन्तापि सन् निस्सनः । इतरस्त्वविवेकी कृपणः शास्यः कर्ता । तव्यतिरिक्तः ईश्वरोऽस्तीत्यर्थः । उक्तं च
१. विज्ञा' ग. पाठः, २. 'निपुणे'. पाठा. ३. 'ही प्रब', ४ १. पाठ
M