________________
१८२
प्रबोधचन्द्रोदये सव्वाने
(ततः प्रविशति पुरुषः।) पुरुषः-(विचिन्त्य सहर्षम्) अहो माहात्म्यं देव्या विष्णुभक्तेः । यत्प्रसादान्मया, तीर्णाः क्लेशमहोर्मयः परिहता भीमा ममत्वभ्रमाः
शान्ता मित्रकलत्रबन्धुमकरग्राहग्रहग्रन्थयः । क्रोधौर्वामिरपाकृतो विघटितास्तृष्णालताविस्तराः पारेतीरमवाप्तकल्पमधुना संसारवारान्निधेः ।। ८ ॥
(ततः प्रविशत्युपनिषच्छान्तिश्च ।) उपनिषत् - सखि! कथं तथा निरनुकोशस्य स्वामिनो मुखमालोकयिष्यामि, येनाहमितरजनयोषेत्र सुचिरमेकाकिनी परित्यक्ता ।
शान्तिः -देवि ! कथं तथाविधविपत्पतितो देव उपा. लम्यते।
उपनिषत् - सखि! न दृष्टा त्वया मे तादृशी अवस्था, येनैवं ब्रवीषि । शृणुबाह्वोर्भमा दलितमणयः श्रेणयः कङ्कणानां
चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । इत्याह-ततः प्रविशति पुरुष इति ।।
और्वाग्निबंडवामुखाग्निः। अवाप्तकल्पमिति । विवेकेन सहोपनिपदागमनमेव केवलमपेक्षितमित्यर्थः ॥ ८ ॥
निरनुक्रोशस्य अनुकम्पारहितस्य । इतरजनयोषा असंस्कृतजनवनिता।
चूडारत्नं शिरोभूषणमाणः । स्वयंप्रकाशसान्द्रानन्दपरमार्थलक्षणं रलं मया सततलालितं मदनमित्यर्थः । तस्य ग्रहणं स्वमतानुसारेणान्य