Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
पंछोऽधः यज्ञविधी विचिन्त्यपुमानकर्ता कथमीश्वरो भवेत्
क्रिया भवोच्छेदकरी न वस्तुधीः। कुर्वन् क्रिया एव नरो भवच्छिदः
शतं समाः शान्तमना जिजीविषेत् ॥ १५॥ तन्मन्ये नातिप्रयोजनं भवत्याः परिग्रहेण । तथापि यदि कर्तारं भोक्तारं पुरुषं स्तुवन्ती कियन्तं कालमत्र वस्तुमिच्छसि, ततः को दोषः ।
एवं तावन्नित्यमुक्तपरमानन्दस्वरूपं परमेश्वरं प्रतिपादयत्युपनिषदित्युक्तम् । तत्र विरोध शङ्कते -विचिन्त्य पुमामकर्ता कषमित्यादिना। तत्र यदभाणि भूतेश्वरमित्यादिना, तन्न घटनामटतीत्याह -- अकर्ता कथमीश्वर इति । लोके तावद् राजादोनामनुग्रहादिव्यापारवतामेवेश्वरत्वं दृश्यते, न त्वक्रियावतां पर्वतादीनामतो न तवाभिलषितस्येश्वरत्वमिति भावः ! किश्च ज्ञानान्मुक्तिरित्यपि ते मनाराज्यमित्याह-क्रिया भवोच्छेदकरीति । क्रियैव मुक्तिहेतुरित्यत्रे शास्त्रं प्रमाणयति-कुर्वन् क्रिया इत्यादिना । यावज्जीवं श्रुतिचोदितत्वाच्चावश्यानुष्ठेयं कर्मवृन्दमिति भावः। उकंच
"कुर्वन्नेव हि कर्माणि शतव जिजीविषेत् ।
इति मन्त्रोऽपि निश्शेष कर्माण्यायुरवासृजत् ।" इति ॥१५॥
यस्मादेवं कर्मणैव मुक्तिरिति निरणायि, तस्मादसङ्गकूटस्थाद्वितीयपरमेश्वरप्रणयिन्यास्तव परिग्रहेण प्रसाध्यप्रयोजनाभावादपरिग्राव भवतीति मन्येऽहमित्याह - तन्मन्ये इत्यादिना । ननु प्रमाणमृताध्ययनकर्तव्यताविधिपरिप्रापितोपनिषत् कथमुपेक्ष्येति चेदवाहथापीति । यदि त्वमात्मनो दुर्विलसितमसङ्गकूटस्थाद्वितीयपरमात्मपक्षपातमपहाय कर्मापेक्षितदेवतादिस्वरूपमभिष्टुवन्ती चेदम्मदानुकूल्यमाचरसि, तो कश्चित् कालमनुमोदामह इत्यर्थः ।।
१. 'द ब्रह्मादी', १. 'त्रैव शा' बं. प. पाठः.
-
-

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249