Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 212
________________ DELA पुरुषः ततस्ततः । उपनिषत् - ततोऽहं तामपि तथैवाश्रयमभ्यर्थितवती । अथ तयाप्युक्तास्मि — भद्रे ! किंकर्मासीति । ततो मया तदेव ' यस्माद्विश्वमित्यादि पठितम् । प्रबोधचन्द्रोदये सव्याख्ये ww पुरुषः - ततस्ततः । उपनिषत् ततो मीमांसया पार्श्ववर्तिनां मुखमालोक्याभिहितम् - अस्त्येवास्माकं लोकान्तरफलोपभोगयोग्यपुरुषोपनयनेनोपयोगः । तद् प्रियतां कर्मोपयुक्तेति । तत्र तेषां मध्ये केनाप्यन्तेवासिनैतदनुमोदितमेव । अपरेण तु प्रसिप्रतिष्ठेन मीमांसाहृदयाधिदैवतेन कुमारिलस्वामिनोक्तम्पेततया पठितेष्वग्निहोत्रदर्शपूर्णमा सचातुर्मास्यपशुबन्धादिषु प्रकृतिभूतेषु क्रतुषु प्राप्तोपदेशैः तत्रैव साकल्येन पठितैः अभियोजयन्ती, तथा विकृतिषु पुनरग्निष्टोमोक्थ्यवाजपेयषोडश्य तिरात्राप्तोर्यामादिष्वश्वमेधान्तेषु विकृतिभूतेषु ऋतुषु 'प्रकृतिवद् विकृतिः कर्तव्ये 'ति न्यायाद् विकृतावनुपदिष्टतयातिदेशप्राप्तैरपि कैश्चिदङ्गैः कानिचित् कर्माणि घटयन्ती मीमांसा मया दृष्टेत्यर्थः ॥ १८ ॥ - । पार्श्ववर्तिनां मुखमिति । भाष्यवार्त्तिकटीकाकारादीनां मुखं निरीक्ष्येत्यर्थः । केनाप्यन्तेवासिनेति । शबरस्वामिना खलु स्वर्गकामवाक्यप्रामाण्यान्यथानुपपत्त्या तावद् देहव्यतिरिक्तः कश्चिदिहलोकपरलोकसञ्चारयोग्य आत्माभ्युपगतः । स च मैत्रेयीत्राह्मणकहोल ब्राह्मणादिषु श्रुतिषु प्रसिद्धविभवोऽपि अविदितवेदान्तवृत्तनामविज्ञातनिजरूपोऽस्मत्कर्मनिर्वर्तनशेषतयोपयुक्तः । तं प्रसाधयन्ती कियन्तंचित् कालमिहानुकूल्यमाचरत्वित्येवं तेनानुमोदितमित्यर्थः । अथ पुनर्भाष्यकारसूत्रकारादीनामुक्तानुक्तदुरुक्तादिकं चिन्तयता वार्त्तिककारेण प्रकारान्तरमुक्तमित्याह - अपरेण त्वित्यादिना । प्रसिद्धप्रतिष्ठेन प्रतिष्ठितप्रामाण्येन सर्वसम्प्रतिपन्नेनेत्यर्थः । मीमांसाहृदयाधिदैवतेन शास्त्रतात्पर्यार्थावद्योतकसहस्रकिरणेन सर्वज्ञेन कुमारिलस्वामिना १. 'मिहोत्रान्ते' क. पाट:. २. 'तान्ताना' घ. पाठः.

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249