Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 210
________________ प्रयोषचन्द्रोदये सव्याख्य पुरुषः - ततस्ततः । उपनिषत् -ततोऽहं तामतिक्रम्य प्रस्थिता । पुरुषः - ततस्ततः। उपनिषत् - ततः कर्मकाण्डविचारिणी सहचरी मीमांसा मया दृष्टा। विभिद्य कर्माण्यधिकारभाञ्जि श्रुत्यादिभिश्वानुगता प्रमाणैः। ___ कर्मकाण्डः पूर्वकाण्डः । तत्साहचर्य नाम तदुवार्थविचारेण तत्र बर्तनम् । इदानीं तस्याः स्वरूपमेव दर्शयति-विभिद्य कर्माणीत्यादिना । कर्माणि विभिद्याङ्गैरभियोजयन्तीत्यन्वयः । तत्र कर्मविभेदस्तावच्छम्दान्तराभ्याससङ्ख्यागुणप्रक्रियानामधेयैर्भवति । तत्र शन्दभेदात् तावद् यजति ददाति जुहोतीत्यादिषु यागदानादिकर्मणां भेदः प्रसिद्धः । तथा 'तनूनपातमित्यादिषु यजति यजतीत्यायभ्यासभेदात् भेदः । सङ्ख्याभेदात्तु 'प्राजापत्याः सप्तदश पशव आलभ्याः' इत्यत्र कर्मणां भेदः । गुणभेदादपि 'श्रामिक्षा वैश्वदेवी वाजिनं वाजिभ्यः' इत्यत्रामिक्षावाजिनगुणभेदाद् भेदः । तथा प्रक्रियाभेदात् प्रकरणभेदादपि । पूर्व तावदुपसच्छब्दवाच्यद्वादशेष्टिमिश्चरित्वानन्तरं कुण्डपाथिनामयनं नामानिहोत्रविशेषो होतव्यत्वेन भूयमाणः पूर्वस्माचैयभिकक्रतुविशेषादन्य एव प्रकरणभेदान्मासामिहोत्रहोम इति ऋतुभेदः । तथा नामधेयभेदादपि । अथ शब्दोपपदसर्वज्योतिर्विश्वज्योतिरित्यादौ नामधेयभेदाद् विश्वज्योतिरित्यादीनां कर्मणां भेदः । एवमेतैः कर्मभेदैः कर्मणां पृथक्त्वं प्रतिपादयन्ती मीमांसा दृष्लेत्यर्थः । कर्माण्येव विशिनष्टि - अधिकारभाजीति । १. 'नैमित्तिक' ग. पाठः. २. 'दकैः क' ग. ह. पाठः. ३. 'पः । विधिपुरुषसम्बन्धोऽधिकारस्तं भजन्तीत्यधिकारभाजि । स चाधिकारस्त्रिविधः । नित्याधिकारी नैमित्तिकाधिकारः काम्याधिकारयेति । तत्र वर्णाश्रमविशेषप्रयुतो नित्याधिकारः । मुनस्ते इस प्रस्तारिख पुत्रजननादिनिमित्तप्रयुको निमित्ताधिकारः। पवादिकामनानियुचः काम्याधिकारावानि विभिप इदं नित्यकर्म इदं नैमित्तिकर्म इदं काम्पकर्म । किन

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249