________________
प्रयोषचन्द्रोदये सव्याख्य पुरुषः - ततस्ततः । उपनिषत् -ततोऽहं तामतिक्रम्य प्रस्थिता । पुरुषः - ततस्ततः।
उपनिषत् - ततः कर्मकाण्डविचारिणी सहचरी मीमांसा मया दृष्टा। विभिद्य कर्माण्यधिकारभाञ्जि
श्रुत्यादिभिश्वानुगता प्रमाणैः। ___ कर्मकाण्डः पूर्वकाण्डः । तत्साहचर्य नाम तदुवार्थविचारेण तत्र बर्तनम् ।
इदानीं तस्याः स्वरूपमेव दर्शयति-विभिद्य कर्माणीत्यादिना । कर्माणि विभिद्याङ्गैरभियोजयन्तीत्यन्वयः । तत्र कर्मविभेदस्तावच्छम्दान्तराभ्याससङ्ख्यागुणप्रक्रियानामधेयैर्भवति । तत्र शन्दभेदात् तावद् यजति ददाति जुहोतीत्यादिषु यागदानादिकर्मणां भेदः प्रसिद्धः । तथा 'तनूनपातमित्यादिषु यजति यजतीत्यायभ्यासभेदात् भेदः । सङ्ख्याभेदात्तु 'प्राजापत्याः सप्तदश पशव आलभ्याः' इत्यत्र कर्मणां भेदः । गुणभेदादपि 'श्रामिक्षा वैश्वदेवी वाजिनं वाजिभ्यः' इत्यत्रामिक्षावाजिनगुणभेदाद् भेदः । तथा प्रक्रियाभेदात् प्रकरणभेदादपि । पूर्व तावदुपसच्छब्दवाच्यद्वादशेष्टिमिश्चरित्वानन्तरं कुण्डपाथिनामयनं नामानिहोत्रविशेषो होतव्यत्वेन भूयमाणः पूर्वस्माचैयभिकक्रतुविशेषादन्य एव प्रकरणभेदान्मासामिहोत्रहोम इति ऋतुभेदः । तथा नामधेयभेदादपि । अथ शब्दोपपदसर्वज्योतिर्विश्वज्योतिरित्यादौ नामधेयभेदाद् विश्वज्योतिरित्यादीनां कर्मणां भेदः । एवमेतैः कर्मभेदैः कर्मणां पृथक्त्वं प्रतिपादयन्ती मीमांसा दृष्लेत्यर्थः । कर्माण्येव विशिनष्टि - अधिकारभाजीति ।
१. 'नैमित्तिक' ग. पाठः. २. 'दकैः क' ग. ह. पाठः. ३. 'पः । विधिपुरुषसम्बन्धोऽधिकारस्तं भजन्तीत्यधिकारभाजि । स चाधिकारस्त्रिविधः । नित्याधिकारी नैमित्तिकाधिकारः काम्याधिकारयेति । तत्र वर्णाश्रमविशेषप्रयुतो नित्याधिकारः । मुनस्ते इस प्रस्तारिख पुत्रजननादिनिमित्तप्रयुको निमित्ताधिकारः। पवादिकामनानियुचः काम्याधिकारावानि विभिप इदं नित्यकर्म इदं नैमित्तिकर्म इदं काम्पकर्म । किन