________________
षष्ठोऽहः ।
अङ्गैर्विचित्रैरभियोजयन्ती प्राप्तोपदेशैरतिदेशकैश्च ॥ १८ ॥
"बृहस्पतिसवे यद्वत् क्षत्रियो न प्रवर्तते । ब्राह्मणत्वादहंमानी विप्रो वा क्षत्रकर्मणि ॥ "
इति न्यायान्नित्यनैमित्तिककाम्यविधीनां पुरुषाणां च सम्बन्धः प्रायः । अतो ब्राह्मण्याद्यध्यासादेवाधिकारः, तं भजन्तीत्यधिकारभाञ्जि । स्वर्गपशुपुत्रादिकामिभिरधिकारिभिः क्रियमाणानीत्यर्थः । किञ्च श्रुत्यादिभिश्चानुगता । तत्र श्रुत्यादयस्तावत् श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याः प्रमाणानि । तत्र पदान्तरनिरपेक्षः शब्दः श्रुतिः । यथा – ऐन्द्रया ऋचा गार्हपत्यमुपतिष्ठेदित्यन्यनिरपेक्षमेव निर्णयेनोक्तिः । श्रुतसामर्थ्यं लिङ्गम् । यथा – खण्डने योग्यं बर्हिर्देवानां सदनं दामीत्यत्र खण्डनकरणे तत्प्रकाशकये जुर्मन्त्रविनियोगो लिङ्गप्रमाणान्निर्णीयते । तथा आकाङ्क्षासंन्निधियोग्यतावन्ति पदानि वाक्यम् । यथा खलु होमकरणभूतजुहूद्रव्यस्य पर्णमयीत्व निर्णयो वाक्य प्रमाणात् । आरभ्याधीतं प्रकरणम् । यथा – दर्शपूर्णमासप्रकरणपठितानां प्रयाजादीनां प्रकरणप्रमाणात् तदनवनिर्णयः ।
•
१९३
―――
"यद्धि प्रकरणे यस्य तत् तदङ्गं प्रचक्षते ।"
इति न्यायादिति । समसङ्ख्यानां यथाक्रमं सम्बन्धः स्थानम् । यथ खलु काम्ययाज्याकाण्डानां मन्त्राणां काम्ययाज्याकाण्डेष्टिभिः सम्बन्धः स्थानप्रमाणादवगम्यते । संज्ञासाम्यं समाख्या । यथा - आध्वर्यवसंज्ञकानां मन्त्राणामाध्वर्यवसंज्ञकैः कर्मभिः सम्बन्धः संज्ञासाम्यप्रमाणनिमित्तः । इत्येवंविधप्रमाणैः कर्मविशेषाणां स्वरूपं विचार्य निर्णयन्ती सेत्यर्थः । किं चै विचित्रैरङ्गैः कर्माण्यभियोजयन्ती । तत्राङ्गानां वैचित्र्यं नाम चरुप्रोक्षणादीनां तावत् कर्मस्वरूपनिष्पत्तावुपकारकाङ्गत्वं, प्रयाजादीनां तु स्वर्गादिरूपफलोपकारकत्वम् इत्येवं विचित्रैरनैः समग्राङ्गत्वं कर्मणां सम्पादयन्तीत्यर्थः । अज्ञानामेव वैचित्र्यान्तरं दर्शयति – प्राप्तोपदेशैरित्यादिना । तत्र समग्राङ्गो -
9. 'बहिर्म' ङ. पाठः २. ' सहितयो' घ. पाठः. ४. 'ति' ख. पाठः. ५. 'ति स्थानं नाम सम' ग. पाठः.
३. 'त' ख. ग. पाठ:६. 'था का' वा. पाठः.
'च प्रोक्षणादिभिः स्वरूपोपकारकैः प्रयाजादिभिश्व कर्मफलोपकार कैरित्ये' 6. पाठ:.
AA