SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽः। तस्मात् तमोन्धानामेवेयमनीश्वरदृष्टिः । अबोधप्रभवं (च) संसारं कर्मभिः शमयन्ती यज्ञविद्या नूनमन्धतमसमन्धकारेणापनिनीषति । स्वभावलीनानि तमोमयानि प्रभासयेद् यो भुवनानि सप्त। तमेव विद्वानति मृत्युमेति __ नान्योऽस्ति पन्था भवमुक्तिहेतुः ॥ १७ ॥ पुरुषः-ततस्ततः। उपनिषत् - ततो यज्ञविद्यया पुनर्विमृश्योक्तं - सखि! त्वत्सन्निकर्षाद् दुर्वासनोपहतैरस्मदन्तेवासिभिः कर्मसु श्लथादरैर्भवितव्यम् । तत् प्रसीदतु भवती स्वाभिलषितदेशगमनाय । इदानीं कर्मणामज्ञाननिवर्तकत्वमुक्तं विघटयति-अयोधप्रभवं चेत्यादिना । "कर्मापमाटि नाज्ञानं तमसीवोत्थितं तमः" इति न्यायात् कर्माज्ञानयोर्विरोधाभावान्न निवर्त्यनिवर्तकभाव इत्यर्थः । न केवलं युक्तिरेवात्र शरणं, युक्त्यनुमाया श्रुतिरप्यत्र प्रमाणमित्याह - स्वभावलीनानीत्यादिना । खभावलीनानि नित्यनिवृत्तानि । तमोमयानि अज्ञानकार्याणि । शुक्तिरजतरज्जुसर्पस्वप्नप्रपञ्चादिवत् कालत्रयेऽप्यनिरूपितरूपाणीत्यर्थः । तमेव विद्वानिति । यः स्वभासा भासयति विश्वं, तं परमात्मानं सकलसाक्षिणं विद्वानवगच्छन्नेव मृत्युमतिकामती त्यर्थः । एवकारेण कर्मादि व्यावय॑ते । उक्तं च "सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव !" इति न्यायात् ज्ञानादेव कैवल्यं न कर्मादिनेत्यर्थः ॥ १७ ॥ ततो यज्ञविद्ययेति । कर्मनाशभयात् मां गच्छेत्युक्तवती सेत्यर्थः॥ १. नियन्तानि तमो स. प. पाठ.. १. वि . सकस' क. पा.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy