________________
प्रबोधचन्द्रोदये सम्यास्ते राज (सोपहासम्) अहो धूमान्धकारश्यामलितहशो दुष्पज्ञत्वं यज्ञविद्यायाः । येनैवं कुतर्कोपहता । यता,
भयः स्वभावादचलं बलाच्चल
त्यचेतनं चुम्बकसन्निधाविव । तनोति विश्वेक्षितुरीक्षितेरिता
जगन्ति मायेश्वरतेयमीशितुः ॥ १६ ॥ महो वाचालता यज्ञविद्यायाः, यन्निरतिशयपुरुषार्थप्रसाधिकामप्युपनिषदं प्रति फल्गु फलं प्रकाश्यं त्वयेति निर्लज्जं जल्पति, तदियं धूर्तेति मन्वान आह राजा-सोपहासमित्यादिना । सन्ततसम्पाद्यमानाग्निहोत्रादिक्रियाजडतया तत्र बहलधूमपरिम्लानमानसत्वात् स्वात्मानं नामिजानात्यन्यथा च कलंयतीत्यर्थः । उक्तं च -
"इति हृष्टधियां वाचः स्वप्रज्ञाध्मातचेतसाम् ।
घुष्यन्ते यज्ञशालासु धूमेनान्धधियां किल ॥" इति ।
ननु कर्ता शास्त्रार्थवत्त्वात्' (ब्रह्मसू ० अध्या० २-३-३३) इत्यादि. शास्त्रप्रसिद्धमेव कर्तृत्वादिकमुच्यते, नियन्तृत्वादिकमपि राजादिवदतः कुतः कुतर्कोपहतेत्याशङ्कयाह - यतः अयः स्वभावादित्यादिना । अयमर्थः -- यथा चुम्बकस्यायस्कान्तमणेः सन्निधावचलमप्ययो बलात् प्रवर्तते, एवं विश्वेक्षितुः साक्षिण ईक्षितेरिता ईक्षितेन ईरिता प्रेरिता माया चैतन्यसन्निधिबलावष्टम्भेनासत्यप्रपञ्चाकारेण विवर्तते । तदेव चेश्वरस्येश्वरत्वं, यत् स्वसन्निधिबलात् मायाप्रवृत्तिः । यद्यपि लौकिकेश्वराणां क्षुद्रशक्तित्वाद् वाग्व्यापारादिकं दृष्टं, न तत् सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्योदाहरणम् । कर्तृत्वमप्यौपचारिकमेव शास्त्रेऽभिप्रेतम् असङ्गोदासीनकूटस्थचैतन्यस्य मुख्यकर्तृत्वानुपपत्तेः । तस्मात् कर्तृत्वव्यतिरेकेण ईश्वरानुपलब्धिः अज्ञानपटलाच्छन्नत्वादित्यर्थः ॥ १६॥
१. 'रूप' ख. ग. घ. पाठः. २. 'वार्थसि' ग. पाठः. ३ 'पि राजानीकमपि रा', न... पाठा. ४. 'त इति यदेतदे', ५. 'वं यब' क. पाठः.