Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
षष्ठोऽः। तस्मात् तमोन्धानामेवेयमनीश्वरदृष्टिः । अबोधप्रभवं (च) संसारं कर्मभिः शमयन्ती यज्ञविद्या नूनमन्धतमसमन्धकारेणापनिनीषति ।
स्वभावलीनानि तमोमयानि
प्रभासयेद् यो भुवनानि सप्त। तमेव विद्वानति मृत्युमेति __ नान्योऽस्ति पन्था भवमुक्तिहेतुः ॥ १७ ॥ पुरुषः-ततस्ततः।
उपनिषत् - ततो यज्ञविद्यया पुनर्विमृश्योक्तं - सखि! त्वत्सन्निकर्षाद् दुर्वासनोपहतैरस्मदन्तेवासिभिः कर्मसु श्लथादरैर्भवितव्यम् । तत् प्रसीदतु भवती स्वाभिलषितदेशगमनाय ।
इदानीं कर्मणामज्ञाननिवर्तकत्वमुक्तं विघटयति-अयोधप्रभवं चेत्यादिना ।
"कर्मापमाटि नाज्ञानं तमसीवोत्थितं तमः" इति न्यायात् कर्माज्ञानयोर्विरोधाभावान्न निवर्त्यनिवर्तकभाव इत्यर्थः ।
न केवलं युक्तिरेवात्र शरणं, युक्त्यनुमाया श्रुतिरप्यत्र प्रमाणमित्याह - स्वभावलीनानीत्यादिना । खभावलीनानि नित्यनिवृत्तानि । तमोमयानि अज्ञानकार्याणि । शुक्तिरजतरज्जुसर्पस्वप्नप्रपञ्चादिवत् कालत्रयेऽप्यनिरूपितरूपाणीत्यर्थः । तमेव विद्वानिति । यः स्वभासा भासयति विश्वं, तं परमात्मानं सकलसाक्षिणं विद्वानवगच्छन्नेव मृत्युमतिकामती त्यर्थः । एवकारेण कर्मादि व्यावय॑ते । उक्तं च
"सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव !" इति न्यायात् ज्ञानादेव कैवल्यं न कर्मादिनेत्यर्थः ॥ १७ ॥
ततो यज्ञविद्ययेति । कर्मनाशभयात् मां गच्छेत्युक्तवती सेत्यर्थः॥ १. नियन्तानि तमो स. प. पाठ.. १. वि . सकस' क. पा.

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249