Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 213
________________ पष्ठोऽधः । देवि! नेयं कर्मोपयुक्तं पुरुषमुपनयति, किन्तु अकर्तारमभोतारमीश्वरम् । नचासावीश्वरः कर्मसूपयुज्यते । अथापरेणोक्तम्-अथ किं लौकिकात् पुरुषादन्य ईश्वरो नामास्ति । ततस्तेन विहस्य पुनरुक्तम् - अस्ति । तथाहि - एकः पश्यति चेष्टितानि जगतामन्यस्तु मोहान्धधी__ रेकः कर्मफलानि वाञ्छति ददात्यन्यस्तु तान्यर्थिने । एकः कर्मसु शिष्यते तनुभृतां शास्तैव देवोऽपरो निःसङ्गः पुरुषः कियासु स कथं कर्तति सम्भाव्यते ॥ भट्टाचार्येणाभिहितमित्यर्थः । तदेव विशदयति-देवि! नेयमित्यादिना। हे मीमांसे ! इयमुपनिषन्न कर्मनिर्वहणचणं पुरुषं प्रतिष्ठापयति । किन्तु ताद्विपरीतमसङ्गोदासीनसुखस्वरूपमीश्वरम् । अतो भाष्यकारस्यापि युक्तिभिर्ना स्तिकपक्षं प्रतिक्षिपतो युक्तिकुशलस्य देहव्यतिरिक्तात्मास्तित्वमेवामिप्रेतम् । अन्यथा कर्मस्वरूपस्यैवासिद्धिप्रसङ्ग इति भावः । एवं तावद् विशुद्धविज्ञानशारीरः श्रेयःप्राप्तिहेतुरस्मच्छरीरोन्द्रियसङ्घाताद् विलक्षणो वेदान्तनिषेवणेनावगम्यनिजरूपः सर्वज्ञ ईश्वरोऽस्तीत्येवं कुमारिलस्वामिनोक्तम् । तदुपश्रुत्यासहमानो गुरुद्रोही प्राभाकरः प्रत्यवतिष्ठते- अथेत्यादिना । अपरेण प्रामा करेण । कर्तृत्वादिरूपेण लोकप्रसिद्धस्वभावात् पुरुषादन्यः कश्चिदीश्वरो नास्त्यनुपलब्धेरेवेत्युक्तं तेनेत्यर्थः । एवमप्रणतगुरुचरणकन्धरस्य स्वयंगुरोः प्राभाकरस्य पाण्डित्यलालित्यमालक्ष्य सोपहासं भट्टपादैरभिहितमित्याहततस्तेनेत्यादिना। प्रसिद्धपुरुषादन्य ईश्वरोऽस्तीत्युक्तं, तदेव दर्शयति - तथाहि एकः पश्यतीत्यादिना । जगतां जनानाम् । चेष्टितानि कर्माणि । पश्य. त्युपलभते । तदनुकूलं फलं च प्रयच्छति । स च नियन्तापि सन् निस्सनः । इतरस्त्वविवेकी कृपणः शास्यः कर्ता । तव्यतिरिक्तः ईश्वरोऽस्तीत्यर्थः । उक्तं च १. विज्ञा' ग. पाठः, २. 'निपुणे'. पाठा. ३. 'ही प्रब', ४ १. पाठ M

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249