Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 206
________________ १८८ प्रबोधचन्द्रादम सव्याख्ये पुरुषः-ततस्ततः। उपनिषत-ततो मया चिन्तितम् । अपि नामैष पुस्तकभारवाहिनी मे ज्ञास्यति तत्त्वमिति । अत एवास्या सन्निधौ कानिचिद् वासराणि नयामि । पुरुषः-ततस्ततः। उपनिषत् - ततस्तामहमुपस्थिता । तया चाहमुः तास्मि-भद्रे ! किं ते समीहितमिति । ततो मयोक्तम्आयें! अनाथास्मि, त्वयि निवस्तुमिच्छामीति । पुरुषः-ततस्ततः । उपनिषत्-ततस्तयोक्तं-भद्रे ! किं ते कर्मेति । ततो मयोक्तं - यस्माद् विश्वमुदेति यत्र रमते यस्मिन् पुनीयते भासा यस्य जगद् विभाति सहजानन्दोज्ज्वलं यन्महः । शान्तं शाश्वतमक्रियं यमपुनर्भवाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम् ॥१४॥ इति । दिष्ट उपदिष्टा पद्धतिर्मार्गः यस्याः सा तथा । चोदनैकसमधिगम्येत्यर्थः । कृष्णाजिनाद्युपकरणैः परिबृंहितेत्यर्थः ॥ १३ ॥ ___ यस्मात् प्रसिद्धात् परमेश्वरात् । विश्वं प्रपञ्चः । उदेति उत्पद्यते । सत्तों स्फूर्ति च लभत इत्यर्थः । रमते स्थितिं लभते । तत्प्रमाणमाह - भासा यस्येति । स्वयमन्यप्रकाशप्रकाश्यं न भवतीत्याह-सहजेति । शान्तं सर्वोपद्रवरहितम् । शाश्वतं नित्यम् । अक्रियमविकारि । अपुनर्भावाय निर्वाणाय । ध्वान्तमज्ञानम् । कृतिनः सम्यग्ज्ञानिनः । एवंविधं पुरुष प्रस्तौमि तात्पर्येण प्रतिपादयामीत्यर्थः ॥ १४ ॥ १. 'वेदैक' ख. ग. घ. पाठः. २. 'ता' क. पाठः. ३. 'वह' गं. पाठः. ४. 'मविक्रियमविकारिणम् । अ'.. पाट:. - -

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249