________________
१८८
प्रबोधचन्द्रादम सव्याख्ये पुरुषः-ततस्ततः।
उपनिषत-ततो मया चिन्तितम् । अपि नामैष पुस्तकभारवाहिनी मे ज्ञास्यति तत्त्वमिति । अत एवास्या सन्निधौ कानिचिद् वासराणि नयामि ।
पुरुषः-ततस्ततः।
उपनिषत् - ततस्तामहमुपस्थिता । तया चाहमुः तास्मि-भद्रे ! किं ते समीहितमिति । ततो मयोक्तम्आयें! अनाथास्मि, त्वयि निवस्तुमिच्छामीति ।
पुरुषः-ततस्ततः ।
उपनिषत्-ततस्तयोक्तं-भद्रे ! किं ते कर्मेति । ततो मयोक्तं - यस्माद् विश्वमुदेति यत्र रमते यस्मिन् पुनीयते
भासा यस्य जगद् विभाति सहजानन्दोज्ज्वलं यन्महः । शान्तं शाश्वतमक्रियं यमपुनर्भवाय भूतेश्वरं
द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम् ॥१४॥ इति । दिष्ट उपदिष्टा पद्धतिर्मार्गः यस्याः सा तथा । चोदनैकसमधिगम्येत्यर्थः । कृष्णाजिनाद्युपकरणैः परिबृंहितेत्यर्थः ॥ १३ ॥
___ यस्मात् प्रसिद्धात् परमेश्वरात् । विश्वं प्रपञ्चः । उदेति उत्पद्यते । सत्तों स्फूर्ति च लभत इत्यर्थः । रमते स्थितिं लभते । तत्प्रमाणमाह - भासा यस्येति । स्वयमन्यप्रकाशप्रकाश्यं न भवतीत्याह-सहजेति । शान्तं सर्वोपद्रवरहितम् । शाश्वतं नित्यम् । अक्रियमविकारि । अपुनर्भावाय निर्वाणाय । ध्वान्तमज्ञानम् । कृतिनः सम्यग्ज्ञानिनः । एवंविधं पुरुष प्रस्तौमि तात्पर्येण प्रतिपादयामीत्यर्थः ॥ १४ ॥
१. 'वेदैक' ख. ग. घ. पाठः. २. 'ता' क. पाठः. ३. 'वह' गं. पाठः. ४. 'मविक्रियमविकारिणम् । अ'.. पाट:.
-
-