________________
षष्ठोऽः।
१८० उपनिषत् - स्वामिन् ! नीतान्यमूनि मठचत्वरशून्यदेवा
गारेषु मूर्खमुखरैः सह वासराणि । पुरुषः-अथ ते जानन्ति किमपि भवत्यास्तत्त्वम् । उपनिषत् - नखलु नखलु । किंतु, ते स्वेच्छया मम गिरां द्रमिडाङ्गनोक्त
वाचामिवाथेमविचाये विकल्पयन्ति ॥ १२ ॥ तेन केवलं तेषां परमार्थहरणप्रयोजनमेव मद्विचारणम् ।
पुरुषः-ततस्ततः। उपनिषत-ततः कदाचित्, कृष्णाजिनाग्निसमिदाज्यजुहूस्रुवादि
पात्रैस्तथेष्टिपशुसोममुखैमखैश्च । दृष्टा मया परिवृताखिलकर्मकाण्ड
व्यादिष्टपद्धतिर नाध्वनि यज्ञविद्या ॥ १३ ॥ नीतान्यमूनि वासराणीति । ते तेषु मठादिषु अशु द्वस्थलेषु अनधिकारिभिरध्यापकैः केवलाठमात्रशरणः संहत्यर्थ ।
द्रमिडागनोक्तवाचामिति । नवोढा किल द्रमिडवधूः पातिव्रत्यभङ्गभयात् पत्या सहैव व्यवहरति । अन्यैः पृष्टमपि कमप्यर्थ नालपति । किन्तु दर्दुरिकेवाविशवाक्षरं यकिनार धूनी जल्लति किल । तस्य चेगर्थ इति न निश्चेतुं शक्यम् । एवं पाठकानां कल्पनाप्यनिर्णीतार्थेत्यर्थः ॥ १२ ॥
__ अखिलकर्मकाण्डव्यादिष्टपद्धतिरिति । निखिलकर्मकाण्डापेक्षितक्रियाप्रयोगप्रकारप्रकाशककल्पग्रन्थनिवहः पद्धतिर्यस्याः सा तयोक्ता । अथवा, कर्मविधिपकार काशकमन्वब्राह्मणरूपकर्मकाण्डेन व्या
१, 'न्यैः किमपि पृष्टानि अविशदाक्षरं किमपि झिल्ली उजल्लति' ग. प. पा.
22