________________
प्रबोधचन्द्रोदये सव्याख्ये ज्ञानेन सम्यक् परिगृह्य ते वै
तान् पुत्रकाः! संशृणुतेत्यवोचन ॥ १० ॥ तद् भवान् पितृत्वेनास्मासु वर्ततामित्येष एव धर्मः ।
शान्तिः - एष देवि! देवेन सह स्वामी विविक्ते व. तते । तदुपसर्पतु देवी ।
उपनिषत् - (उपसर्पति ।) शान्तिः-स्वामिन् ! एषोपनिषदेवी पादवन्दनायागता ।
पुरुषः-नखलु नखलु । यतो मातेयमस्माकं तत्त्वावबोधोदयेन । तदेषैवास्माकं नमस्या । अथवा,
अनुग्रहविधौ देव्या मातुश्च महदन्तरम् । माता गाढं निबध्नाति बन्धं देवी निकृन्तति॥११॥ उपनिषत-(विवेकमवलोक्य नमस्कृत्य दूरे समुपविशति ।
पुरुषः- अम्ब! कथ्यताम् । क्व भवत्या नीता एते दिवसाः। तादिपितृगणान् स्वसुतान् प्राप्य धर्माध्वनि नष्टसंज्ञाः धर्मस्वरूपपरिज्ञानरहिताः तेषामुपदेशेन धर्मस्वरूपं साकल्येनावगच्छत इति प्रजापतिनोक्का दक्षाद्या देवाः प्राप्तधर्मसन्देहाः स्वतनयान् अग्निप्वात्तादीन् पितृन् तमर्थ सन्दिग्धधर्मादिस्वरूपमपृच्छन् विचारितवन्तः । ते तु पुनः पितरः शास्त्रार्थज्ञानेन यथावत् परिगृह्य सम्यगवगम्य । तान् दक्षादीन् हे पुत्रकाः! संशृणुत सम्यक् श्रूयताम् इत्यवो चन् उक्तवन्तः । इत्येवं ज्ञानोपदेष्टुर्गुरुत्वं प्रसिद्धमित्यर्थः ॥ १०॥
अनुग्रह विधाविति । असारशुक्लशोणितारब्धशरीरस्य मातुरपि तावद् वन्दनीयत्वं प्रसिद्धं, रे किमु वक्तव्यं निरतिशयपुरुषार्थप्रसाधनसम्यग्ज्ञानजनन्या उपनिपद इति भावः ॥ ११ ॥
.. 'दंकि ' क. ग. पा.