________________
षष्ठोऽङ्कः ।
ર૧
यथा मन्दराभिधाने शैले विष्णोरायतने देव्या गीतया सह तर्कविद्याभयादनुप्रविष्टेति ।
राजा - कथं पुनरतर्कविद्याभयम् ।
-
श्रद्धा - देव ! तमेतमर्थं सैव प्रस्तोष्यति । तदागच्छतु देव: । एष स्वामी त्वदागमनमेवानुध्यायन् विविक्ते वर्तते । राजा - ( उपसृत्य ) स्वामिन्! अभिवादये ।
पुरुषः - वत्स ! क्रमविरुद्धोऽयं समुदाचारः । यतो ज्ञानवृद्धतया भवानेवास्माकमुपदेशदानेन पितृभावमापन्नः ।
कुतः
-
पुरा हि धर्माध्वनि नष्टसंज्ञा
देवास्तमर्थं तनयानपृच्छन् ।
यथा मन्दराभिधान इत्यादिना । अस्ति किल दण्डकारण्ये प्रणीता नाम संसेवितसज्जना कापि नदी । तस्याः परिसरालङ्कारभूते मन्दरनामधेये पर्वते श्रीशार्ङ्गपाणेर्भगवतः पुरुषोत्तमस्यायतने सुतया सह गतिया तार्कि काणां केवलदुस्तर्कधूलिधूसरसन्त्रस्ता तत्र समनुप्रविश्य वर्तत इत्यर्थः ॥
प्रस्तोष्यति कथयिष्यति । एष स्वामी क्षेत्रज्ञः ॥ क्रमविरुद्धोऽयमिति । यद्यपि पुराणत्वाद् वयोवृद्धोऽहं तथापि 'विद्वान् सर्वत्र पूज्यते' इति न्यायाद् ज्ञानशरीरासादकत्वेन पितृत्वाच भवत एव गुरुत्वमित्यर्थः ।
किश्चोपदेष्टुर्गुरुत्वं पुराणादिपु प्रसिद्धमित्याह - कुमः पुराहीत्यादिना । पुरा हि परमेष्ठिपुत्रत्वाद् द्युतिमत्वाद् दक्षाया देवाः पितरं परमेष्ठिनमवधीर्यान्यं देवमय॑जन् मुमुक्षवः सन्तः । तदसहमानेन पित्रा प्रध्यातास्ते सपदि प्रमुष्टधर्मादितत्त्वस्तृतयोऽभवन् । ततस्तु से तमेव चिन्नाशयाः पितरं प्रजापतिमेव शरणं गताः । प्रजापतिः पुनः पुत्राणां प्रणसिं प्रेक्ष्य प्रभूतप्रसादः प्रेक्षावानिदमुवाच - हे वत्साः ! यूयमविश्वा
2. 'याजयन्' प. पाठः.
Z