________________
१८१
प्रबोषचन्द्रोदये सव्याख्ये शान्तिः - देवि ! अविचारणीयमेतद् भगवत्या वाक्यम् । अयमेव चार्थो देव्या भगवत्या विष्णुभक्त्या विवेकस्वामिने निरुक्तः । तदेहि, सम्भावय दर्शनेन भर्तारमादिपुरुषं च । उपनिषत् - यथा वदति प्रियसखी । (इति परिक्रामति)
(ततः प्रविशति राजा श्रद्धा च ।) राजा-अयि वत्से! अपि द्रक्ष्यति शान्तिः प्रियामुपनिषदम्।
श्रद्धा-देव ! गृहीतोद्देशैव शान्तिर्गता । कथं तां न द्रक्ष्यति ।
राजा-कथमिव । श्रद्धा-देव! प्रागेव कथितमेतद् देव्या विष्णुभक्त्या।
न्यायात् प्रश्नोत्तरप्रदानादेव फलसिद्धिरिति भावः । अध्यक्षं समक्षम् ।।
सत्यमेवमेतत् । तदाकूतं तु न विचारणीयमित्याह- अधिचारणीयमिति । निरूप्यमाणे सति प्रश्नोत्तरत्वेनैव वाक्यप्रवृत्तिः, न पुनरन्यथेति नियमोऽस्ति । किन्तु यथा यथा पुरुषार्थों भवति, तथा तथा बोधनीयमित्याकूतम् । भगवद्गीतायास्तव च तथा स्वभाव इति भावः ॥
गृहीतोद्देशैवेति । सर्वथा तामानेष्यामीति निश्चितसझल्पा सा गतेत्यर्थः ॥
ननु न तस्या वार्ताप्याकर्ण्यते, तत् कथमानेष्यतीति पृच्छतिकथमिवेति ।
तद् विष्णुभक्त्यैव समावेदितमुपनिषन्निवासस्थानं ज्ञात्वैव शान्तगतेत्याह-देव प्रागेवेत्यादिना । आवेदनप्रकारमेवास्य दर्शयति
१. 'तु न विवेचनीयमि' क. ग. घ. पाठः. २. 'णेऽपि प्रश्नोत्तरे सति नैव पाक्यप्रवृत्तिः न पुनरन्यथेति न नियमोऽस्ति' प. पाठ:. ३. व्यामीति' ग. पाठः.