Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 198
________________ १८० श्रद्धा शान्तिः श्रद्धा प्रबोधचन्द्रोदये सव्याख्ये नखलु नखलु । ततस्ततः । ततः पार्श्ववर्तिना तर्केण तान् सर्वान् क्रोधावेशकषायितनयनमालोक्याभिहितः स्वामी । स्वामिन् ! किमेवमेभिर्विषयामिषग्रासगृध्नुभिरास्थानीधूर्तबकैः पुनरपि तेष्वेव विषनविषयाङ्गारेषु निपात्यमानमात्मानं नावबुध्यसे । ननु भोः, भवसागरतारणाय यासौ सुचिराद् योगतरीस्त्वयाश्रिता । अधुना परिमुच्यतां मदात् कथमङ्गारनदीं विगाहसे ॥ ७ ॥ एवं तावदनेकजन्मार्जितसुकृतसञ्चयेनेश्वरप्रसादादारादुपकारकेष्वग्निहोत्रादिषु, सन्निपत्योपकारकेषु च शमादिषु वैराग्यान्तेष्वन्तरङ्गसाधनेषु गोपालकनियोगाद् अयमधिकारी व्यापृतवान् इत्यभाणि । अधुना त्वधी रतया पराक्त्वे प्राप्ते तन्निरसनाय गोपालनाभिहित इत्याह- पार्श्ववतिनेति । अभिधानप्रकारमेवावेदयति - स्वामिन् ! किमेभिरित्यादिना । एमिरेवं प्रदर्शितविषयपक्षपातिभिरिन्द्रियारातिभिः । आस्थानी राजधानी । तत्र स्वामिप्रयोजनमनवेक्ष्य स्वप्रयोजनपराः आस्थानीधूर्तस्त एव बकवद् निर्भयमेवात्मभरत्वाद् बकाः तैः । स्पर्शमात्रेण नाशकरत्वाद विषया अ ङ्गाराः तेष्वित्यर्थः । भवसागरेति । भवः संसारः सागरवद् दुरुत्तरत्वात् सागरः । तस्योल्लङ्घनाय । सुचिरादनेकजन्मार्जितपुण्यनिवहैः कथंचिदश्वरप्रसादलब्धयोग एव संसारसमुद्रतरणसाधनत्वात् तरीः तां विहाय विषयाभिमुख्यमनुपपन्नमित्यर्थः । अस्य खलु दुर्निरूपस्य संसारस्यायं स्वभावः । यद् बहिर्मुखानां तमोजुषां संसारः बन्धनमेव सन्तनोति । प्रत्यक्प्रवणानां तु

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249