Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 203
________________ षष्ठोऽङ्कः । ર૧ यथा मन्दराभिधाने शैले विष्णोरायतने देव्या गीतया सह तर्कविद्याभयादनुप्रविष्टेति । राजा - कथं पुनरतर्कविद्याभयम् । - श्रद्धा - देव ! तमेतमर्थं सैव प्रस्तोष्यति । तदागच्छतु देव: । एष स्वामी त्वदागमनमेवानुध्यायन् विविक्ते वर्तते । राजा - ( उपसृत्य ) स्वामिन्! अभिवादये । पुरुषः - वत्स ! क्रमविरुद्धोऽयं समुदाचारः । यतो ज्ञानवृद्धतया भवानेवास्माकमुपदेशदानेन पितृभावमापन्नः । कुतः - पुरा हि धर्माध्वनि नष्टसंज्ञा देवास्तमर्थं तनयानपृच्छन् । यथा मन्दराभिधान इत्यादिना । अस्ति किल दण्डकारण्ये प्रणीता नाम संसेवितसज्जना कापि नदी । तस्याः परिसरालङ्कारभूते मन्दरनामधेये पर्वते श्रीशार्ङ्गपाणेर्भगवतः पुरुषोत्तमस्यायतने सुतया सह गतिया तार्कि काणां केवलदुस्तर्कधूलिधूसरसन्त्रस्ता तत्र समनुप्रविश्य वर्तत इत्यर्थः ॥ प्रस्तोष्यति कथयिष्यति । एष स्वामी क्षेत्रज्ञः ॥ क्रमविरुद्धोऽयमिति । यद्यपि पुराणत्वाद् वयोवृद्धोऽहं तथापि 'विद्वान् सर्वत्र पूज्यते' इति न्यायाद् ज्ञानशरीरासादकत्वेन पितृत्वाच भवत एव गुरुत्वमित्यर्थः । किश्चोपदेष्टुर्गुरुत्वं पुराणादिपु प्रसिद्धमित्याह - कुमः पुराहीत्यादिना । पुरा हि परमेष्ठिपुत्रत्वाद् द्युतिमत्वाद् दक्षाया देवाः पितरं परमेष्ठिनमवधीर्यान्यं देवमय॑जन् मुमुक्षवः सन्तः । तदसहमानेन पित्रा प्रध्यातास्ते सपदि प्रमुष्टधर्मादितत्त्वस्तृतयोऽभवन् । ततस्तु से तमेव चिन्नाशयाः पितरं प्रजापतिमेव शरणं गताः । प्रजापतिः पुनः पुत्राणां प्रणसिं प्रेक्ष्य प्रभूतप्रसादः प्रेक्षावानिदमुवाच - हे वत्साः ! यूयमविश्वा 2. 'याजयन्' प. पाठः. Z

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249