________________
१८०
श्रद्धा
शान्तिः
श्रद्धा
प्रबोधचन्द्रोदये सव्याख्ये
नखलु नखलु ।
ततस्ततः ।
ततः पार्श्ववर्तिना तर्केण तान् सर्वान् क्रोधावेशकषायितनयनमालोक्याभिहितः स्वामी । स्वामिन् ! किमेवमेभिर्विषयामिषग्रासगृध्नुभिरास्थानीधूर्तबकैः पुनरपि तेष्वेव विषनविषयाङ्गारेषु निपात्यमानमात्मानं नावबुध्यसे । ननु भोः,
भवसागरतारणाय यासौ सुचिराद् योगतरीस्त्वयाश्रिता ।
अधुना परिमुच्यतां मदात् कथमङ्गारनदीं विगाहसे ॥ ७ ॥
एवं तावदनेकजन्मार्जितसुकृतसञ्चयेनेश्वरप्रसादादारादुपकारकेष्वग्निहोत्रादिषु, सन्निपत्योपकारकेषु च शमादिषु वैराग्यान्तेष्वन्तरङ्गसाधनेषु गोपालकनियोगाद् अयमधिकारी व्यापृतवान् इत्यभाणि । अधुना त्वधी रतया पराक्त्वे प्राप्ते तन्निरसनाय गोपालनाभिहित इत्याह- पार्श्ववतिनेति । अभिधानप्रकारमेवावेदयति - स्वामिन् ! किमेभिरित्यादिना । एमिरेवं प्रदर्शितविषयपक्षपातिभिरिन्द्रियारातिभिः । आस्थानी राजधानी । तत्र स्वामिप्रयोजनमनवेक्ष्य स्वप्रयोजनपराः आस्थानीधूर्तस्त एव बकवद् निर्भयमेवात्मभरत्वाद् बकाः तैः । स्पर्शमात्रेण नाशकरत्वाद विषया अ ङ्गाराः तेष्वित्यर्थः ।
भवसागरेति । भवः संसारः सागरवद् दुरुत्तरत्वात् सागरः । तस्योल्लङ्घनाय । सुचिरादनेकजन्मार्जितपुण्यनिवहैः कथंचिदश्वरप्रसादलब्धयोग एव संसारसमुद्रतरणसाधनत्वात् तरीः तां विहाय विषयाभिमुख्यमनुपपन्नमित्यर्थः । अस्य खलु दुर्निरूपस्य संसारस्यायं स्वभावः । यद् बहिर्मुखानां तमोजुषां संसारः बन्धनमेव सन्तनोति । प्रत्यक्प्रवणानां तु