________________
षष्ठोऽः ।
१७९
अनुपाधिरमणीयोऽयं देशः । एष त्वामुपस्थितो विविधविलासलावण्यपुण्यमयो मङ्गलार्थव्यग्रपाणिः प्रणयपेशलो विद्याधरीजनः । तदेहि, यतोऽत्र -
I
कनकसिकतिलस्थलाः स्रवन्तीः
पृथुजघनाः कमलानना वरोरूः
मरकतदलकोमला वनाली
भज निजपुण्यजितांश्च सर्वभोगान् ॥ ६ ॥
शान्तिः
• ततस्ततः ।
श्रद्धा
पुत्रि ! तदाकर्ण्य मायया श्लाघ्यमेतदित्युक्तम् । मनसा चानुमोदितम् । सङ्कल्पेन प्रोत्साहितम् । स्वामी सम्प्रति सन्मित्रपथमिवापन्नः ।
शान्तिः संसारवागुरामपि पतितः स्वामी ।
इति ॥ ६ ॥
(सखेदं ) हा धिक् हा धिक् पुनरपि तामेव
i
च्छन्द्यते प्रतार्यते । उपच्छन्दनप्रकारमेव दर्शयति- भो इहोपविश्यतामित्या दिना । अनुपाधीति । उपाधिमन्तरेण निसर्गसुन्दरोऽयं देश इत्यर्थः ॥ चवन्नीः सरितः । उपासकानां बुद्धिलाघव परीक्षणाय प्रत्यूहभेदाः समुत्तिष्ठन्तीत्यर्थः । उक्तख -
" वासुदेवे मतिर्यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय ! देवेन्द्रत्वादिकं फलम् ||"
प्रोत्साहितं सन्नाहितम् ॥ संसारवागुरा संसार एव वागुराश्वमृगबन्धनी । संसारयन्त्रजा
लकमिति यावत् ॥
वे मनो य' क. ङ. पाठ:
Y2