________________
प्रबोधचन्द्रोदये सव्याख्ये शान्तिः - ततस्ततः।
श्रद्धा-ततस्तया सह तैर्गत्वा कापि स्वामिन ऐन्द्रजालिकी विद्योपदर्शिता । तथाहि, शब्दानेष शृणोति योजनशतादाविर्भवन्ति स्वत
स्तास्ता वेदपुराणभारतकथास्तादयो वाङ्मयाः । प्रथ्नाति स्वयमिच्छया शुचिपदैः शास्त्राणि काव्यानि वा लोकान् भ्राम्यति पश्यति स्फुटरुचो रत्नस्थलीमैरवीः
[॥५॥ मधुमती च भूमिमापन्नः स्थानाभिमानिनीभिर्देवताभिरुपच्छन्द्यते । भी इहोपविश्यताम् । नात्र जन्ममृत्यू : लाषा योगान्तरायाः । लयः सुषुप्तम् । विक्षेपो मनोराज्यादिकरणम् । कषायो नाम विक्षिप्तस्यापि चित्तस्य ध्येयाथास्थिरतानिमित्तं पापम् । समाधिसमयसुखाभिलाषोऽपि पुरुषार्थविरोधीत्यते योगान्तराया इत्यर्थः । अथवा । प्रतिभाश्रवणादयः प्रत्यूहाः : तथाचाहुः
"प्रतिभाश्रवणो देवो भ्रमावर्ती तथापरे ।
पञ्चैते योगिनां योगविघ्नाय नरकोदयाः ॥" इति । विवेकमुपनिषदं च प्रस्मरति पुरुष इत्यर्थः ।
कापीति । अविचारितरमणीयेत्यर्थः । भैरवीः मेरुसम्बन्धिनीः ॥ ५ ॥
एवं तावदुपसर्गाणां विप्रलम्भकत्वप्रकारः प्रादर्शि · अधुना मधुमतीविलोभनप्रकारं दर्शयति । मधुमती च भूमिमित्यादिना । मधुमती भोगोपकरणवती भोगभूमिमिति यावत् । आपन्नः प्राप्तः । उपासकः पुरुष इति शेषः । स्थानाभिमानिनीभिः पुष्कलभोगोपसम्पन्नहिमवस्पृष्ठादिस्थानाभिमानिनीभिः विद्याधरगन्धर्वभुजङ्गचारणादिदेवताभिः उप
१. 'कदुको' क. ग. पाठ:. २. 'पकरणस' क. पाठः,