________________
षष्ठोऽङ्कः ।
१७७
किन्त्वसौ प्रत्यक्प्रवणतां स्वामिनो विचिन्त्य कृतं कर्तव्यमिवात्मानं मत्वा स्वयमेव धर्मः श्लथव्यापारोऽभूत् । शान्तिः - अथ यानुपसर्गान गृहीत्वा महामोहो निलीय स्थितस्तेषां को वृत्तान्तः ।
श्रद्धा
-पुत्रि ! तथा दुरवस्थां गतेनापि महामोहहतकेन स्वामिनः प्ररोचनाय मधुमत्या विद्यया सहोपसर्गाः प्रेषिताः । अयमभिप्रायः — यद्येतेष्वासक्तः स्वामी विवेक उपनिच्चि
-
न्तामपि न करिष्यतीति ।
ननु तर्हि "कर्मणा बध्यते जन्तुः" इति न्यायात् तदवस्थ एव बन्ध इत्याशङ्कयाह - किन्त्वित्यादिना ।
-
-
“प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥"
इति न्यायाद् बहिरङ्गत्वपरिहारेण प्रत्यगात्मानुसन्धानाभिमुख्यमानाय धर्मः स्वयमेव विलयं प्राप्त इत्यर्थः ॥
एव तावत् पूर्णपुरुषार्थत्राये पुष्कलापकरणोपहित एव पुरुष इत्यभाणि । अधुना
" श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः || संन्यासिनोऽपि दृश्यन्ते देवसन्दूापताशयाः ।। "
इति न्यायात् पामरप्राणिपरिगृहीतोऽपि निर्वाय मोहः किमरुन्तुदो वा न वेति मन्वाना पृच्छति शान्तिः 1- अथ वानुपसर्गानित्यादिना । तथा दुरवस्थां गतेनेति । कष्टतर दशां गतेनापि । प्ररोचनाय चित्तविलोभनार्थम् | हरमेखलादिग्रन्थप्रसिद्धा मन्दमतिप्रक्षोभणार्थे त्वैन्द्रजालिकार्थ प्रकाशपटीयसी विद्या मधुमतीति भण्यते । अथवा मधुमतीति भोगमूमिर्भाष्यते । योगशास्त्रप्रसिद्धा योगाभ्यासपरिपाकसूचिका काचन दश । परमानन्दरूपत्वान्मधुमतीत्यभिधीयते । तया सह योगोपसर्गाः प्रत्यू - हनिवद्दाः अणिमाद्यैश्वर्यव्याजाः । अथवा लयविक्षेपकषायसमाधिसुखाभि
१. 'र्थम् । मारमेखला' ग, म. पाठः. २. 'परत्वा' ग. पाठः,
T