________________
----------
--
१०६ प्रबोषचन्द्रोदये सव्याख्ये मैत्र्याधाः परिचारिकाः सहचरी नित्यं मुमुक्षा बला.
दुष्छेद्या रिपवश्व मोहममतासङ्कल्पसङ्गादयः ॥ ३ ॥ शान्तिः-अथ धर्मे स्वामिनः कीदृशः प्रणयः ।
श्रद्धा-पुत्रि! वैराग्यसन्निकर्षात् प्रभृति नितान्तमिहा. मुत्रफलभोगविरस एव स्वामी । तेन, स नरकादिव पापफलाद्भयं भजति पुण्यफलादपि नाशिनः । इति समुझितकामसमन्वयं सुकृतकर्म कथश्चन मन्यते ॥४॥ प्रायाः सन्तोषप्रभृतयः । सखायोऽवियुक्तगतयः । मैत्र्याद्याः मैत्रीकरणामुदितोपेक्षाप्रभृतयः । परिचारिकाः धान्यः । मुमुक्षा मोक्षेच्छा । सहचरी समानात्मप्रतिपत्तिशीला । बलात् प्रसह्य । एतावन्तं कालं कृतापराधजालमालक्ष्य तदनुसारेण कारागृहे दृढं बद्ध्वा निप्पीड्यालककरसवत् प्राणरससंग्रहणेनोन्मूलयितव्या महामोहादय इत्येवं कृतव्यवसाया विवेकादय इत्यर्थः ॥ ३ ॥
एवंविधस्यापि भोक्तृत्वाभिनिवेशेन कर्तृत्वायारोपणेन क्रियायामभिनिवेशोऽस्ति नवेति मन्वाना पृच्छति- अथ धर्मे स्वामिन इत्यादिना।
वैराग्यसन्निकर्षात् प्रभृतीति । "ब्रह्मादीनां शरीराणि श्वस्करशरीरवत् ।
यतो जिहासितान्येव तस्माद्धर्मेऽपि पाप्मगीः ॥" इति न्यायादधर्मवस्याप्युपेक्षणीयत्वं मोक्षविरोधित्वाविशेषादिति मन्यते पुरुषः । तेनेति वैराग्यबाहुल्यहेतुनेत्यर्थः ।
यद्येवं काम्यप्रतिषिद्धयोर्मोक्षविरोधित्वात् परित्यागो भवतु, नित्यस्य तु विहितत्वात् परित्यागोऽनुपपन्न इत्याशङ्कयाह-सुकृतकर्मेति । गर्दितात्र इव अपलोकपर्यन्तभोगेषु विरक्तत्वात् कर्मप्रयोजनामावात् , यद्यपि कर्मणां साकल्येन परित्यागः प्राप्तः, तथापि गृहमेषित्वात् कथम्चनानास्थमेव स्वकर्म कुर्वन् वर्तत इत्यर्थः॥४॥
१. 'माय'. १. 'पर' ग. पाठा. ३. 'स्वाद मन्ना'.. पाब.