________________
१३७
चतुर्थोऽङ्कः । द्वयाम्भोजराजन्नखद्योतकिमीरितस्वर्णपीठ ! स्फुरद् द्वैतविभ्रान्तिसन्तानसन्तापसन्तप्तवन्दारुसंसारनिद्रापहारैकदक्ष मामण्डलोद्धारसंहार संघट्ट संघृष्टदंष्ट्रा ग्रकोटिरपुरच्चैलचक्र! क्रमाक्रान्तलोकत्रय ! प्रबलभुजबलोद्धृत गोवर्धनच्छत्र निर्वारिता
! क्ष
राजन् दीव्यन्न खानां द्योतो दीप्तिस्तया किमरितं कल्माषितं स्वर्णमयपादपीठं यस्य भगवतः सोऽयं तथोक्तः । अथवा किमीरितमित्यस्यान्योऽर्थः । श्रीमन्नारायणपादाम्बुरुहसेवामहे। त्सवसमुत्सुकतयाविच्छिन्न संततधारं सर्वतः समागत्य भक्त्यतिशयेन पक्तिशः प्रणतविबुधसभाभूषितभूषाभास्वन्मणिप्रभापटलव्यतिषङ्गदोषेण निसर्गभास्वत् स्वर्णमयपादपीठं किमरितं किणी - कृतमिव यस्य स तथेति । स्फुरच्च तद् द्वैतं चेति समासः । तत्र स्फुरणं नाम स्वप्नप्रपञ्चप्रतिभासवदेव केवलं द्वैतभानं, न त्वंव द्वैतमिति निरूपणक्षममित्यर्थः । द्वैत (स्य ) विभ्रान्तिः परिभ्रमणम् अनादिभवपरम्परावासनाप्रवृत्तजननमरणादिभिः सुरनरस्करा दियोनिभेदेषु अनिशं बम्भ्रम्यमाणत्वम् एवंविधविभ्रान्तेः सन्तानेन पौनःपुन्येन वर्तमानगर्भवासादिदुःखनिवहेन सम्यकतापेन । सम्यक्ता नाम कदाचिदपि सुखलेश संस्पर्शः । तेन सन्ततानां वन्दारूणां
“चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ! |
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! || "
इत्यादिवचनादनेकदुःखव्रातसन्तापेन भगवन्नारायणपादारविन्दवन्दनशीलानां संसारिणां संसार एव निद्रावद विशेषविज्ञानविरोधित्वाद् निद्रा तस्या अपहारो निरासः तस्मिन्नेकः प्रधानो दक्षः कुशलः यः स भगवांस्तथोक्तः । क्षमा पृथिवी तस्या मण्डलस्योद्धरण, पुरा खलु हिरण्याक्षेण पातालनिवेशितपृथिवीमण्डलस्योद्धरणे संहारः सम्यगाहरणं दंष्ट्राग्रेण समुत्खायाकृध्योपरि यथापुरं संस्थापनम् तदानीं सम्यग् घट्टनः सङ्घर्षः (तेन) सम्यग् घृष्टदंष्ट्रायाः अग्रकोठ्यां स्फुरत् शोभमानं शैलानां चक्रं निवहो यस्य भग वतः स तथोक्तः । भूरादिक्रमेणाक्रान्तम् उल्लङ्घितं लोकानां त्रयं येन स
१. 'यप्र' घ. पाठः
२. 'नैवमि' ग. पाठः.
T
|