________________
१३८
प्रबोधचन्द्रोदये सव्याख्ये खण्डलोद्योजताकाण्डचण्डाम्बुवाहातिवर्षत्रसद्गोकुलत्राणविस्मापिताशेषविश्वप्रभो! विबुधरिपुवधूवर्गसीमन्तसिन्दूरसन्ध्यामयूखच्छटोन्मार्जनोद्दामधामाधिप! वस्तदैत्येन्द्रवक्षस्तटीपाटनाकुण्ठभास्वन्नखश्रेणिपाणिद्वयस्रस्तविस्तारिरक्तार्णवामग्नलोकत्रय ! त्रिभुवनरिपुकैटभोद्दण्डकण्ठास्थिकूटस्फुटोन्मार्जितोदात्तचक्रस्फुरज्ज्योतिरुल्काशतोड्डामरोद्दण्डदोर्दण्ड !
तथोक्तः । प्रकर्षण बलं सारत्वं यस्य भुजस्य स प्रबलभुजः, तस्य बलं सामर्थ्य बलनोद्भूतः बलोद्भूतः उद्धृतः उत्साटितः स च गोवर्धन एव वर्षनिवारकत्वात् छत्रं तन छत्रेण नितरां वारितम् आखण्डलः पुरुहूतस्तेनोद्याजिताः अवश्यकरणीयमेवेन्युचैः प्रेरिताः अकाण्डे अकाले चण्डाः ऋराः अम्बु वहन्तीत्यम्बुवाहाः तेषामत्यर्थं वर्षमतिवर्ष तेन त्रसत् कम्पमानं गवां कुलं समूहः । गोकुलमित्युपलक्षणं व्रजजननिवहस्यापि । तेषां त्राणं रक्षणं तेन विस्मापितं कुतूहलितमशेषं च तद् विश्वं चेत्यः शेषविश्वं तस्य प्रभुः स्वामी यो भगवान्नारायणः स तथोक्तः । विबुधा देवाः तेषां रिपवः शत्रवोऽसुराः रिपूणां वधूवर्गः स्त्रीजनः तस्य सीमन्तः केापद्धति तत्र निहितं सिन्दूररज एव संध्यामयूखवदतिरक्तत्वात् मयूखा रश्मयः, तेषां छटा पुञ्जः तस्योन्मार्जने निरसने उद्दाममुत्कटं धाम तंजस्तस्य अधिपो घुमणिः तद्वदुक्तविशेषणो यो भगवान् स तथोक्तः । यथा खल्वादे त्यः सम्प्रसारयन्नात्मतेजः संध्यारागं तिरयति, एवमेवायं भगवानसुरनिवहनिग्रहणासुराङ्गनानामेकवेणीत्वसम्पादनेन सीमन्तसीनि निहितसिन्दूररेणुं तिरयतीत्यर्थः । त्रस्तो भीत. स चासौ दैत्यानामिन्द्रश्च तस्य वक्षस्तटी उरःस्थलं, तत्पाटने भेदने अकुण्ठानाम् अभुमानां, भास्वन्तश्च त नखाश्च तेषां श्रेण्या पतया सहितात् पाणिद्वयात् स्रस्तं खुतं च तद्विस्तारि भूरि च रक्तं रुधिरं तदेव अर्णववत् बहुलवादर्णवः, तत्र आसम
५. 'न्तः विवृतवेणीविवरालकालकृतालिकावसानप्रदेशः त' ग. ह. पाठः.