________________
प्रबोधचन्द्रोदये सव्याख्य सूतः- (परिक्रम्य) आयुष्मन् ! पश्य पश्य तदिदं सुरसरित्परिसरालङ्कारभूतं भगवतः पावनमनादेरादिकेशवस्य विष्णोरायतनम् ।
राजा- (सहर्षम् ) अये, एष देवः पुराविद्भिः क्षेत्रस्यात्मेति गीयते । अत्र देहं समुत्सृज्य पुण्यभाजो विशन्ति यम् ॥ ३०॥
सूतः-भायुष्मन् ! पश्य पश्य । एते तावत् कामकोषलोभादयोऽस्मदर्शनमात्रादेवेतो देशाद् दूरमतिकामन्ति ।
राजा- एवमेतत् । तद्भवतु । स्वाभीष्टसिद्धये भगवन्तं नमस्यामः । (रथादवतीर्य प्रविश्यावलोक्य च) जय जय भगवन्! अमरचयचमूचक्रचूडामणिश्रेणिनीराजितोपान्तपाद
एष देवः क्षेत्रस्यात्मेति । श्रीमन्नारायणात्मकं श्रीवाराणसीक्षेत्रमित्यर्थः॥३०॥
एवमेतदिति । यथा खलु द्युमण्डलपरिमण्डनभूताखण्डमार्ताण्डमण्डलोद्दण्डविकसद्युतिमण्डलसमुदयसमये नक्तञ्चरा न सञ्चरन्ति, एवमेव विवेकविभावसुविभवविभ्रमविलसद्युतिनिदग्धाः कामादयः पलायन्ते इत्येतच चित्रम् । किन्तु उपपन्नमेवेत्यर्थः ।
एवं तावदादिकेशवायतनं प्रविष्टो विवेक इत्युक्तम् । इदानी भूरिभक्तिमारावनमितकन्धरः प्रचुरस्नेहबहुमाननिघ्ननिजहृदयः श्रीमन्नारायणे भगवति परमा भक्तिमुद्वहन् दण्डकस्तोत्रेण संस्तुवन् दण्डवधिपत्य नमस्कर्त प्रक्रमते विवेक इत्याह-जय जयेत्यादिना । अमराणां चयो निकरस्तस्य चमूः सेना तस्याश्चकं समूहः तेषां चूडा मौलिः तत्र निममानां मणीना श्रेणिः पतिः त्या नीराजितमभिद्योतितमुपान्तं निकटं यस्य पादयस्य तत् पादयमेवाम्भोजवदतिरमणीयत्वादम्भोजं तस्याग्रालि