________________
११५
चतुर्थोऽहः । एताश्च प्रतिमुकुललग्नमधुपावलीरणितमुखरा जृम्भा - [म्मविगलन्मकरन्दबिन्दुदुर्दिनाः कुसुमसुरभयो नातिदूरे श्यामायमानघनच्छदच्छायातरवो नगरपर्यन्तारण्यभूमयः । त्रै मरुतोऽपि गृहीतपाशुपतव्रता धूलिमुद्धूलयन्तस्तापसा व लक्ष्यन्ते । तथाहि
तोयार्द्राः सुरसरितः सिताः परागैरर्चन्तश्च्युतकुसुमैरिवेन्दुमौलिम् । प्रोद्गीतां मधुपरुतैः स्तुतिं पठन्तो
नृत्यन्ति प्रचललताभुजैः समीराः ॥ २८ ॥ राजा - ( सानन्दमालोक्य)
एषान्तर्दधती तमोविघटनादानन्दमात्मप्रभं
चेतः कर्षति चन्द्रचूडवसतिर्विद्येत्र मुक्तेः पदम् । भूमेः कण्ठविलम्बिनीव कुटिला मुक्तावली जाह्नवी
यत्रैवं हसतीव फेनपटलैर्वकां कलामैन्दवीम् ॥ २९ ॥
झात्कारोऽनुकरणशब्दः । मूयः शब्दोऽत्यर्थार्थः ॥ २७ ॥ जृम्भारम्भः कुसुमविकाससमयः । घनच्छदं निषिडपलवम् । पर्वतारण्यभूमयः उद्यानभूप्रदेशाः ।
अन्तर्दधतीति । श्रीविश्वेश्वरालङ्कृतप्रासादमणिकर्णिकयोर्मध्यदिशः । तमोविघटनादिति । तमसोऽज्ञानस्य विनाशनेन । आत्मप्रभम् आत्मप्रवणं चेतः कर्षति सम्पादयति । क्षेत्रप्रसादात् प्रत्यक्प्रावण्यादिारेआत्माकारं प्रवर्तते चित्तमित्यर्थः । तत्र दृष्टान्तमाह – विद्येवेति । बथा परदेवता गुरुप्रसाद बाहुल्यपरिप्रापिता तत्त्वमस्यादिमहावाक्यश्रवणजनेतापरोक्षविद्या कैवल्यमापादयेदेवमेवैषान्तर्दधत्यपि मुक्तिप्रापिकेत्यर्थः ।
- ।
-
वीयत्रैवं इसतीति । सकलभूमण्डलपरिमण्डन भूता भगवती भागीरणी वयमुपसृत्य यत् क्षेत्रमठचकार, तन्माहात्म्यं किमु वक्तव्यमिति भावः ॥२९॥