Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar
________________
इति वचनात् । तथा च जइ पव्वतिहिखओ तह कायन्वो पुव्वतिहीए । एवमागमवयणं कहियं तेलुक्कनाहेहिं ॥१॥ चउमासीय वरिसे वुड्डी भवे जा (सा) पुव्वतिहीए ठविया णं पुव्वदिणे मिलिया दोवि तत्थ दिणे ॥१॥ तथा-अट्ठमी चाउद्दसी पुन्निमा उद्दिट्ठा य पव्वतिही । एसु खओ न हविज्जइ इइ वयणाओ इति वचनात् । आयरियावि एवमेव भण्णंति जम्हा पुन्निमाखए तेरसीखओ एवमेव वुड्डीए वि जायइ इच्वाइ । यदि अष्टमीचतुर्दशीपूर्णमासीअमावास्यादिपर्वतिथिसु क्षयं (गतासु) सत्सु तत्पूर्वायास्तिथेः क्षयो युक्तः, तथा पूर्णमास्यमावास्योः क्षये चतुर्दश्या एव क्षयो युक्तियुक्तः, परं त्रयोदश्याः क्षयस्तु न युक्तियुक्तस्तृतीयस्थानस्थितत्वात्, सत्यं, परं चतुर्दश्या: पर्वदिनत्वेन सूत्रकृतांगद्वितीयश्रुतस्कंधवृत्तौ अंगीकरणात्तस्याः न भवत्येव, एवमेवाष्टमीपूर्णिमामावास्यादिपर्वतिथीनां क्षयोऽपि न भवति, अत:कारणात् गीतार्थास्त्रयोदश्या एव क्षयं कुर्वन्ति तदनुसारेणास्माभिरपि क्रियते । एवं भाद्रपदशुक्लपंचम्या अपि क्षयसद्भावे तृतीयाया क्षयः क्रियते कार्यते च । अत एव त्रयोदश्या क्षय एव युक्तियुक्तः, तद्दिन एव साधवः सर्वचैत्यानि सर्वसाधून (वन्दन्ते) पाक्षिकतपः प्रतिक्रमणं क्रियते (कुर्वन्ति), नतु पूर्णमास्याः । पूर्णिमास्यास्तपस्तु तदा क्रियते यदि तद्दिने क्षयो न भवेत्, तद्दिनकृतनियमो भवति स करोतु, परं प्रतिक्रमणं तु चतुर्दश्यामेव करोति, पूर्णमास्यास्तु दैवसिकं करोति । यदि एवमपि तव न रोचते तर्हि हीनायां पूर्णमास्यां चतुर्दश्या घटिका आकर्ण्य पूर्णमास्यां निक्षेपः कार्य: ततः जाता परिपूर्णा पूर्णिमा हीना चतुर्दशी, तस्याः क्षयाभावात् त्रयोदश्या घटिकायाश्चतुर्दश्यां निक्षेपः कार्यः, ततः जाता परिपूर्णा चतुर्दशी, क्षीणा त्रयोदशी जाता । अत एव तृतीयस्थानवर्त्तिन्या अपर्वरूपायास्त्रयोदश्याः क्षयो युज्यते इति ।
यदि च पूर्णमास्या वृद्धौ (द्वित्वे) किं कार्यं ?, पूर्वोक्तं तद्वत्कार्ये, द्वे चैव त्रयोदश्यौ कार्ये, कथमेवं? सत्यं, परं चिरन्तनसूरिभिः एवं क्रियते कार्यतेच, कथं ? पूर्णिमास्यामावास्यौ कदापि जैनागमाभिप्रायेण न वर्धिते, परंतु लौकिकशास्त्राभिप्रायेण तु वर्धिता दृश्यते, परं असूनृतत्वेन तद्विषयो नांगीकृतः, कथं ?, आगमेन सह विरोधात् । विरोधश्चायं-वृद्धौ उत्तरातिथि: कार्येति वचनात् एकैव उदयवती पूर्णिमा गृह्यते सा तु द्वितीयैव, न तु आद्या,
(3)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 54