Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar

Previous | Next

Page 14
________________ होइ । तासं खओ तेरसि भणिओ जिणवरिदेहि ॥१॥ एवमेव न्यायेन भाद्रशुक्लपंचम्या: क्षये त्रयोदश्या: क्षयो गीताथैः क्रियते ? गुरुस्तं प्रत्याह-अत्र विधौ त्वं सावधानीभूय श्रृणुचतुर्दश्या: पर्वतिथित्वेन क्षयः न क्रियते, अत एव अपर्वरूपास्त्रयोदश्याः क्षयो युक्तियुक्त इति । पुनरपि पृच्छति-पूर्णिमातस्तृतीयस्थानवर्तिनी त्रयोदशी कथं क्षीयते ? तत्रापि कारणं शृणु-पूर्णिमाया: क्षय एव न भवति, तदंतरगताया: घटिकाया: सर्वथाऽभावो लौकिकटिप्पनके दृश्यते, तत्सत्यं, पूर्णिमायां चतुर्दश्या घटिका कालमपेक्ष्य स्थापितेत्यर्थः, ततो जाता चतुर्दशी रिक्ता, तस्याः क्षय: केनापि पूर्वधरेण न कृत इति श्रूयते पर्वतिथित्वेनेति, उक्तं च सिद्धान्तसागरे-अट्ठमीचाउद्दसीपुन्निमा उद्दिट्ठा य पव्वतिहीएसुखओ न हविजइ, एत्थ यकरंडे (यगारगाठाणे) चकारो भाणियव्वो, अतो पज्जोसवणाइ पव्वतिहीएसु एवमेव भाणियव्वं इति । अत: कारणात् अपर्वरूपाया: त्रयोदश्याः घटिका अपसार्या च चतुर्दशी पूर्यते, अत एव तस्या: पूर्णिमाया: क्षये त्रयोदश्या: क्षयो युक्तियुक्तः क्रियते. एतदुक्तं श्राद्धविधौ-श्राद्धेन पर्वदिवसाः सर्वे विशेषेण पालनीयाः, पर्वाणि चैवमूचुः- अट्ठमी चउद्दसी य पुनिमा य तह अमावसा हवइ पव्वं । मासम्मि पव्वछक्कं, तिन्नि अ पव्वाइ पक्खम्मि ॥१॥ तथा-बीया पंचमी अट्ठमी एक्कारसी चउदसी य पण तिहीओ । एआओ सुअतिहीओ गोयमगणहारिणा भणिआ ॥२॥ बीया दुविहे धम्मे पंचमी नाणेसु अट्ठमी कम्मे । एगारसी अंगाणं चउद्दसी चउदपुव्वाणं ॥३॥अत एव सदापि अमावास्यापूर्णिमादिपर्वतिथयः पर्वतिथित्वेनाराध्या एव । तथा च श्रीश्राद्धदिनकृत्ये० ॥ अथ च- चाउद्दसट्ठमुद्दिट्टपुनमासिणीसु णं पडिपुन्नं इत्यस्य व्याख्या-चतुर्दश्यष्टम्यौ प्रतीते, उद्दिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु तथा पूर्णमासीषु च तिसृषु, चतुर्मासिकेष्वपीत्यर्थः इति सूत्रकृतांगद्वितीयश्रुतस्कंधवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवादरूपं, पंचमश्रावकप्रतिमावाहककार्तिकश्रेष्ठिवत्, न तु विधिवादरूपं । लक्षणं चेदं-पुनरेकेन केनचित् यत्क्रियानुष्टानमाचरितं तच्चरितानुवादः. सर्वैरपि यत् क्रियानुष्टानं क्रियते स विधिवादः । विधिवादस्तु सर्वैरप्येकेनैव रूपेणांगीकृतः स एव प्रमाणं, न तु चरितानुवाद इति। स तु कारणिको, न तु नित्यो, विधिवादस्तु नित्य: कर्त्तव्य इति रहस्यम् । तस्मात् पूर्णिमामावास्योः क्षये त्रयोदश्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54