Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah Author(s): Narendrasagarsuri Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya BhavnagarPage 34
________________ । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥ १ ॥ तथा उदयंमि जा तिही सा पमाणं इत्यादि श्रीउमास्वातिवाचक (प्रभृति) वचनप्रामाण्यात् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथि: सैव मान्या, नापरेति । तथा हीरप्रश्नचतुर्थोल्लासे त्रुटिततिथिमाश्रित्य प्रश्न एवं कृतोऽस्ति, तथाहि यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते पूर्णिमायां च त्रुटितायां कुत्रेति, अत्रोत्तरं यदा पंचमी तिथि त्रुटिता भवति तदा तत्तप पूर्वस्यां तिथौ क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति प्रतिपादितमस्तीति । अत्र विजयानंदसूरिगच्छीयाः (आनंदसूरिया पूर्णिमामावास्यावृद्धौ प्रतिपद ववृधिरे, न तु सांप्रतिनोत्थापकवत् पर्वापर्वतिथ्योर्मिश्रतां पर्वद्वयमिश्रतां पर्वतिथेर्वृद्धिं च चक्क्रुः) प्रतिपद्यपीति अपिशब्दं गृहीत्वा पूर्णिमाभिवृद्धौ प्रतिपद्वृद्धिं कुर्वन्ति तन्मतमपास्तं, यत: पूर्णिमाभिवृद्धौ त्रयोदश्या वृद्धिर्जायते, न तु प्रतिपदः, यतष्टिप्पनकादौ चतुर्दश्यां पूर्णिमासंक्रमो दृश्यते, न तु प्रतिपदि । ननु पूर्णिमा चतुर्दश्यां संक्रमिता तदा भवद्भिः द्वे चतुर्दश्यौ कथं न क्रियते ?, तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि श्रृणु तत्र उत्तरं - जैनटिप्पनके तावत् (पर्व) तिथीनां वृद्धिरेव भवति, ततः परमार्थतः त्रयोदश्येव वर्धिता, न तु प्रतिपद्धद्धिर्भवति, लौकिकलोकोत्तरशास्त्रप्रतिषेधित्वात्, तस्मात् सिद्धं चैतत् पूर्णिमावृद्धौ त्रयोदशीवर्द्धनं, चेदेवं तव न रोचते तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज, अथ एवमपि ते न रोचते तर्हि प्रष्टव्योऽसि यत् चतुर्मासकसंबंधिपूर्णिमावृद्धौ त्वं त्रयोदशीवृद्धिं कुरुषे शेषपूर्णिमासु च प्रतिपद इति कुत्र शिक्षितोऽसि ?, यतः सर्वां अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एव इति, यदुक्तं श्रीश्राद्धदिनकृत्ये छण्हं तिहीणं मज्झमि का तिही अज्ज वासरे इत्यादि, ता : सर्वा अपि तिथय आराध्या एवेति, अथ च चाउद्दसमुद्दिट्ठपुण्णिमासिणीसु पडिपुन्नं इत्यस्य व्याख्या. चतुर्दश्यष्टम्यौ प्रतीते, उदिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिषु इत्यर्थः इति सूत्रकृतांगद्वितीयश्रुतस्कंधसूत्रवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवादरूपं, शतवारपंचमश्राद्धप्रतिमावाहककार्तिकश्रेष्ठिवत्, न तु विधिवादरूपं, तल्लक्षणं पुनरेकेन केनचिद् यत् क्रियानुष्ठानमाचरितं स चरितानुवादः, सर्वैरपि यत् क्रियानुष्ठानं क्रियते स विधिवादः, (३२) Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54