Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar
________________
सहियं कायव्वा अट्ठमी उ पायेणं । अहवा सत्तमि नेयं नवमे छठे न कइयावि ॥५॥ आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुण वइसाहेसु य नायना ओमरत्ताओ ॥६॥ तथा-पाक्षिकक्षामणे अपि चार मासाणं अट्ठ पक्खाणं एकसो वीस राइंदियाणं तथा सांवत्सरिकक्षामणे बारसण्हं मासाणं चउवीस पक्खाणं त्रणसो सायठ राइंदियाणं इत्यादि । सार्धसप्ताहोरात्रै: मासस्यैकः पादः, पंचदशाहोरात्रैरर्धमासो भवति, एवं त्रिंशदहोरात्रैर्मास: पूर्णमासो भवतीत्यादि । एवं ऋतुअयनसंवत्सरे त्रिशताधिकषष्ट्यहोरात्रा ३६० भवंति, अत एव मासांते पूर्णिमा, तदनंतरमाद्यमासस्य प्रथमदिवसो भवतीति । एवमेव भाद्रपदशुक्लपंचम्यन्तर्गतसांवत्सरिकसंबंधिनी क्रिया, सापि चतुर्थी नीता, परं पंचमी पर्वतिथित्वेन रक्षिता, ततः षष्ठीत आरभ्य दशम्यंते ६।७।८।९।१०। इत्येकं पंचकं, ११।१२।१३।१४।१५। इति द्वितीयं । १।२।३।४।५। तृतीयं ६।७।८।९।१०। चतुर्थं, अनया रीत्या कार्त्तिकपूर्णमास्या चतुर्दश पंचकमायाति इति बोध्यम् । अतः परं विशेषजिज्ञासुभिर्वृद्धदेवेन्द्रसूरिकृता सामाचारी विलोकनीया । तत्रापि पाक्षिकप्रतिक्रमणकरणं चतुर्दश्यामेव कथितं, पूर्णमास्यां तु दैवसिकमिति सिद्धं, विशेषचर्चयालं । इति तिथिवादे सप्रमाणे चतुर्दश्यामेव पाक्षिकप्रतिक्रमणं कर्त्तव्यमिति महोपाध्यायश्रीविनयविजयगणि शिष्यपंडितरूपविजयगणिना लिखितमासीत्तदुपरिष्टात् मया रामविजयेन विक्रमसंवत १७९२ ज्येष्ठशुक्लसप्तम्यां बुधवासरे श्रीथरादनगरे अमरचन्द्रात्मजेन नरभेरामेण लिखितं, शुभं भवतु श्रीश्रमणसङ्घस्य ।
(एष तिथिविचार आचीर्णचतुर्दशीवादिविहितोवाचनोपयुक्तांशुद्धिं विधाय मुद्रितः, एवमग्रेतना अपि पाठाः प्रतिभागाश्च कृत्रिमत्वभ्रान्त्यपाकृतये यथावच्छुद्धिमकृत्वा यथादर्श मुद्रित एष ग्रन्थांशसंचयः । भविष्यत्येतावतैव विदुषां विनिश्चयो यदुत पूर्णिमामावास्ययोः क्षये वृद्धौ च त्रयोदश्या एव क्षयो वृद्धिश्च युक्ता, तथैव च भाद्रपदस्य शुक्लपंचम्याः क्षये वृद्धौ च शुक्लतृतीयाया: क्षयो वृद्धिश्च युक्ता । परंपरागता च सा रीति: नार्वाचीनेति)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54