Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar
________________
आद्या तु सामान्या अपर्वरूपा च । अत एव तस्या वृद्धेस्त्रयोदश्यामेव न्यासः क्रियते, स्थाप्यते इत्यर्थः । एवमपि तव न रोचते तद्देवं कुरु-वर्द्धिताया आद्यपूर्णमास्या घटिकाश्चतुर्दश्यां स्थाप्याः, स्थापितत्वेन च वर्द्धिता चतुर्दशी, साप्यागमाभिप्रायेण द्वे न भवेतां, अत एव तस्या आद्यायाश्चतुर्दश्या घटिकायाः त्रयोदश्यां संयोजना कार्या, एवं रीत्यापि आगमशैल्यापि अपर्वरूपा त्रयोदश्येव वर्धिता भवति यद्येवमपि तव न रोचते तर्हि प्रथमां पूर्णिमा परित्यज्य द्वितीयां पूर्णिमां भज इति । एवममुना प्रकारेणैव भाद्रपदशुक्लपंचम्याः क्षये वृद्धौ च तृतीयस्थानवर्त्तिन्याः तृतीयाया: क्षयं वृद्धिं च कुरु, मा कदाग्रहग्रथिलो भव । आद्यां पंचमी चतुर्थीस्थाने संस्थापय, द्वे चतु. कृत्वा आद्यां चतुर्थी परित्यज्य द्वितीयां भज इति । तुष्यंतु सजना इति ! न्यायेनेत्यलं चर्चया ॥
पूर्णमासी तु मासे पूर्ण (%) भवति ततो २ मास आयाति, पाक्षिकादिक्रिया तु चतुर्दश्यामेव कथं क्रियते ? सत्यं, पूर्णिमांतर्गता, पाक्षिकादितपः प्रभृति प्रतिक्रमणादिः सर्वक्रिया गीतार्थेश्चतुर्दश्यां नीता, ततस्तद्दिने एव पाक्षिकप्रतिक्रमणादि: सर्वं क्रियते, परं पूर्णिमा तिथित्वेन नापहृता, किंतु पूर्वोक्तक्रिया त्वपहृता, सापि पर्वतिथित्वेन प्रतिपादितास्ति, अत एव सावणबहुलपक्ख इति सिद्धांतवचनानुसारेण श्रावणकृष्णप्रतिपद आरभ्य पंचाशदिने पर्युषणा कार्या । दिनगणना त्वेवं-श्रावणकृष्णप्रतिपदेकं पंचमीपर्यंत दिनपंचकं १।२। ३।४।५। एवं षष्ठ्या दशमी ६।७।८।९।१०। एवमेकादश्या अमावास्यापर्यंत ११।१२। १३।१४।०))। एवमेव दशभिः पंचकैः पर्युषणा कार्या । आह च श्रीकल्पसूत्रसामाचार्यां वासाणं सवीसइराईए मासे विइक्कते पज्जोसवेइ तथा सवीसइराईए मासे विइक्कते सत्तरी राइदिएहिं सेसेहिं ति समवायांगे । तथा पक्खस्स अद्धं अट्ठमी मासस्सद्धं तु पक्खि होइ । सोलसदिने न पक्खिनणु कायव्वं तु कइयावि ॥१॥ पक्खिपडिक्कमणाओ सट्ठियपहरम्मि अट्ठमी होइ । तत्थेव पच्चक्खाणं करेंति जिण (चंद) वयणाओ ॥२॥ जहिआओ अट्ठमी लग्गाओ हुंति पक्खसंधीसु । सहिपहरंमि निच्चं करेति पक्खियपडिक्कमणं ॥३॥ पन्नरसम्मि य दिवसे कायव्वं पक्खियं तु नियमेन । चउदसीसहियं कइयावि न हु तेरस सोलस दिवसे ॥४॥ अट्ठमीतिहीइ
(४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54