Book Title: Nyayavatara
Author(s): Saumyangratnavijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 11
________________ अतः युवानामुपकारायैवैतादृशाः ग्रन्थाः भवन्ति, न बालोपकाराय । योगशतकमध्ये सूरिपुरन्दरैः स्पष्टमेवोक्तं यदुत योगस्य प्रथमाधिकारी अपुनर्बंधक एव, तदर्वाग् नमस्कारमन्त्रोऽपि न दीयते तदा स्याद्वादामृतस्य का वार्ता ! ___ अतोऽत्राधिकारी → चरमावर्त्तप्रविष्टो धर्मयौवनसंप्राप्तः अपुनर्बन्धक - सम्यग्दृष्टि - देशविरत - सर्वविरतान्यतमोऽधीतव्याकरणकाव्यकोषदर्शनशास्त्रोऽनधीतजैनन्यायशास्त्रः - एतदेवास्य ग्रन्थस्याधिकारिणो निर्दुष्टं सर्वदोषविवर्जितं गुणनिष्पन्नं परिष्कृतं समीचीनलक्षणं मे आभाति। विद्वांसः परिमार्जयन्तु। ___ सूरिप्रेमभुवनभानुजन्मशताब्धिवर्षे मच्छिष्यमुनिसौम्यांगरत्न - यशरत्नविजययोर्मनसि एको मनोरथः समुत्पादि यदुत जैनन्यायवाङ्मयस्य साधु-साध्वीभगवन्तोऽध्ययनं कुर्वन्त्विति । ये केऽपि संस्कृतभाषाऽऽलसाः तेषामप्यस्मिन् दुरूहग्रन्थेऽस्खलिता गतिः स्यादिति कृत्वा स्व-परोपकाराय दृढाशयः समुत्पन्नः। सुष्टु लिखितं याकिनीमहत्तरासुनिभिः पञ्चाशयानां निरूपणं कुर्वद्भिः - "इच्छा-प्रवृत्ति-विघ्नजय-सिद्धि-प्रसिद्धिः”। आदाविच्छा जायते पश्चात् प्रवृत्तिः, विघ्नजयादयस्तु दृढाशयाणां पूर्वकृतपुण्यसहचरितानां देवगुरुकृपालब्धानां स्यादेव । तस्मात् गुर्जरभाषायां न्यायावतारस्य रश्मितुल्या "न्यायरश्मि" नाम्नी टीका तैलिखिता। शासनप्रभावक - आचार्यश्रीरत्नसुंदरसूरिशिष्यमुनिभव्यसुंदरविजयैः सूक्ष्मेक्षिकयाऽस्याः प्रमार्जनं कृत्वा हर्ष वितेनिरे || स्याद्वादभाषा - न्यायावताराणां गुर्जरटीकेव अनेकान्तजयपताकाया आरब्धा टीकाऽपि अतिशीघ्रतया पूर्णतां लभेत् । रचनाप्राप्तनिर्जरया "कृत्स्नकर्मक्षयाद् मोक्ष" इति मोक्षस्थानं प्राप्नुयादिति आशीर्वादः।। आचार्यगुणरत्नसूरिः आचार्यरश्मिरत्नसूरिः उमरा - सूरत मागसरवदी ४ शुक्रवार Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 408