________________
(३६)
न्यायसिन्धौ.
साकारबोधमतिरस्ति नवा तथा ते नान्त्ये प्रसिद्धिरपि तस्य भवेत्कथञ्चित् ॥ आयेऽनवस्थितिमुखान्न भवेद्विमुक्ति
स्साकारता यदि भवेन्ननु बोधबोधे ॥१८८॥ साकारता न यदि तत्र तदा कथं स्याद् बोधव्यवस्थितिकथापि भवन्मतेन ॥ किं वा तयैव न कथं विषयव्यवस्था
साकारताविरहितादपि बोधतस्ते ॥१८९॥ साकारबोध इह किञ्च न चेत्पदार्थ
बाह्यं तवोपगमतो विषयीकरोति ॥ सिद्धिस्तदा भवतु तस्य कुतो न चार्था
पत्तर्हि तस्य विषयोकरणन्ततो नो ॥१९॥ किश्चानुमानत इयं न पृथक् त्वयेष्टा
व्याप्तिग्रहन्तु विरहय्य न तस्य जन्म ॥ व्याप्तिग्रहोऽप्यविषयीकरणे न तस्य
बाह्यप्रथाविलय एव भवेन्मते ते ॥१९॥ बिम्बानुमा भवति या प्रतिबिम्बनेन तत्रापि बिम्बप्रतिबिम्बनभावबन्धः ॥ आकार एष ननु तादृश इष्यते चेद् बिम्बप्रसिद्धिरपि तर्हि तदन्यतः स्यात्॥१९२॥ यो वेद बिम्बमतिरिक्तमिहानुबिम्बान्मानान्तराद्भवति तत्प्रतिबिम्बहेतोः॥