Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
॥ नयनिरूपणम् ॥
श्रीसिद्धसेनकृतिनस्तु मते न चर्जु
सूत्रस्य सम्मत इहादिनये प्रवेशः ॥ अन्यत्समानमुभयोर्मत एव सप्त स्युर्वै नया न च विरोधघटाप्रथाऽत्र ॥२८२॥ शब्देन सांप्रतमुखस्य न यन्नयस्योपादानतोऽपि ननु पञ्च नयाः प्रसिद्धाः ॥ ते देशप्रस्थकवसत्युपनीतिभिस्स्युः
शुद्धा यथाक्रममनिन्धधिया विभाव्या ॥२८३ तत्रादिमो भवति सङ्ग्रहनामधेयो
वेदान्तदर्शनभवस्तत उच्यते ज्ञैः ॥ एकान्ततत्त्वमननाश्रयणात्परन्तु
दुन्नीतिताऽस्य कथिता नयताऽन्यथा तु ॥२८४ सगृह्णतस्सकलमेव तु भावराशिं
सत्त्वादिना भवति सङ्ग्रहताऽस्य युक्ता ॥ इष्टः परापरतया द्विविधस्स तत्र सत्त्वादिना सकलंगौचर आदिमस्तु ॥२८५॥ शुद्धस्स एव कथितोऽन्यनयाप्रवेशाद्द्रव्याथको भवति भेदगुणोऽप्यभेदात् ॥
द्रव्यादिभावमननादपरो निरुक्तो ऽशुद्धोऽन्यनीतिघटनाश्च तथाविधोऽपि ॥२८६॥
नो सङ्ग्रहे घटपटादिविशेषबुद्धेलापो मतोऽनुभवबाधभयाबुधानाम् ।।

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286