Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 268
________________ ॥ अनुमानाभासनिरूपणम् ॥ (२३३) Annao अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं साध्यस्य सिद्धिजनकस्य तथोभयोश्च ॥ सन्दिग्धसाध्यविरहोऽभिमतस्तथाऽत्र सन्दिग्धलिङ्गविरहो जिनसम्प्रदाये ॥ २७१ ॥ सन्दिग्धसाध्यगमकोभयशन्यताऽथ व्याप्तेरकीर्तनमपि व्यतिरेकयोश्च ।। तदर्शनञ्च विपरीतत एवमत्र व्याप्तेरभाव उभयाव्यतिरेकयोश्च ॥ २७२॥ स्यान्न्यायदोष इह चोपनयोपसंहा राभासभेदभजनाद्विविधो जिनानाम् ॥ दृष्टान्तधर्मिणि वचोगमकस्य पक्षे साध्यस्य वा यदि तदा प्रथमोऽत्र दोषः ॥२७३॥ साध्योपदर्शनबलाद्रमकोपसंहारस्तु द्वितीय इह जैनमते प्रसिद्धः ॥ एषामुदाहृतिपदं स्वयमेव विह भाव्यं स्थलेषु विविधेषु विवेकदृष्टया ॥२७॥ शब्दस्त्वनीप्तपुरुषोचरितोऽत्र शब्दाभासश्चतुर्विधतयाऽपि मतोऽन्यभेदैः ॥ आकाङ्क्षया विरहितानि पदानि यत्र वाक्यं बुधैरिह खलु प्रथमं तदिष्टम् ॥२७५।। यद्बाधितार्थविषयं तदयोग्यशब्दसङ्केतगोचर इहाभिमतं तिीयम् ॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286