________________
॥ अनुमानाभासनिरूपणम् ॥
(२३३)
Annao
अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं
साध्यस्य सिद्धिजनकस्य तथोभयोश्च ॥ सन्दिग्धसाध्यविरहोऽभिमतस्तथाऽत्र
सन्दिग्धलिङ्गविरहो जिनसम्प्रदाये ॥ २७१ ॥ सन्दिग्धसाध्यगमकोभयशन्यताऽथ व्याप्तेरकीर्तनमपि व्यतिरेकयोश्च ।। तदर्शनञ्च विपरीतत एवमत्र व्याप्तेरभाव उभयाव्यतिरेकयोश्च ॥ २७२॥ स्यान्न्यायदोष इह चोपनयोपसंहा
राभासभेदभजनाद्विविधो जिनानाम् ॥ दृष्टान्तधर्मिणि वचोगमकस्य पक्षे
साध्यस्य वा यदि तदा प्रथमोऽत्र दोषः ॥२७३॥ साध्योपदर्शनबलाद्रमकोपसंहारस्तु द्वितीय इह जैनमते प्रसिद्धः ॥ एषामुदाहृतिपदं स्वयमेव विह
भाव्यं स्थलेषु विविधेषु विवेकदृष्टया ॥२७॥ शब्दस्त्वनीप्तपुरुषोचरितोऽत्र शब्दाभासश्चतुर्विधतयाऽपि मतोऽन्यभेदैः ॥ आकाङ्क्षया विरहितानि पदानि यत्र वाक्यं बुधैरिह खलु प्रथमं तदिष्टम् ॥२७५।। यद्बाधितार्थविषयं तदयोग्यशब्दसङ्केतगोचर इहाभिमतं तिीयम् ॥