________________
(२३४)
न्यायसिन्धौ.
आसत्तिशन्यपदसंघटितं तु वाक्यमिष्टं तृतीयमिह सन्निधिशन्यनाम ॥२७६॥ अन्येच्छयोच्चरितवाक्यमथान्यबोधे
च्छोच्चारितत्वमतिगोचर इष्टमन्त्यम ॥ एतन्नयानुसरणाहिबुधैर्विचार्य
सर्वे नयो जिनमतानुगता यतो वै ॥२७७॥ प्रक्रान्तमाविषयभागविधिप्रवीणो
यो नयस्तदितरांशनिषेधकुण्ठः ।। नामानि प्रापकनिवर्तकसाधकोपपलम्भावभासकमुखानि बह्वनि तस्य ॥२७८॥ द्रव्यार्थपर्ययप्रभेदत एष इष्टो
द्वेधा तथाऽर्थमननेन समासतोऽत्र ।। व्यासात्तु सप्तविध आहेततत्त्वविद्भि
रुक्तोऽथ दर्शितनयो सकलस्य मूलम् ॥२७९॥ द्रव्यं प्रधानत उपैति न पर्ययन्तु
द्रव्यार्थिको गुणतयोपगमोऽस्य तस्मिन् । पर्यायमात्रमुपगच्छति पर्ययोऽपि
प्राधान्यतो न कुनयत्वग्रसक्तिरस्य ॥२८०॥ द्रव्यार्थिकस्य खवु नैगमसंग्रहर्जु
सूत्रा मता विभजना व्यवहारमिश्राः॥ शब्दस्तथा समभिरूढसमन्वितैवंभूतोऽपरस्य जिनभद्रमते नयस्य ॥२८१॥