SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ॥ नयनिरूपणम् ॥ श्रीसिद्धसेनकृतिनस्तु मते न चर्जु सूत्रस्य सम्मत इहादिनये प्रवेशः ॥ अन्यत्समानमुभयोर्मत एव सप्त स्युर्वै नया न च विरोधघटाप्रथाऽत्र ॥२८२॥ शब्देन सांप्रतमुखस्य न यन्नयस्योपादानतोऽपि ननु पञ्च नयाः प्रसिद्धाः ॥ ते देशप्रस्थकवसत्युपनीतिभिस्स्युः शुद्धा यथाक्रममनिन्धधिया विभाव्या ॥२८३ तत्रादिमो भवति सङ्ग्रहनामधेयो वेदान्तदर्शनभवस्तत उच्यते ज्ञैः ॥ एकान्ततत्त्वमननाश्रयणात्परन्तु दुन्नीतिताऽस्य कथिता नयताऽन्यथा तु ॥२८४ सगृह्णतस्सकलमेव तु भावराशिं सत्त्वादिना भवति सङ्ग्रहताऽस्य युक्ता ॥ इष्टः परापरतया द्विविधस्स तत्र सत्त्वादिना सकलंगौचर आदिमस्तु ॥२८५॥ शुद्धस्स एव कथितोऽन्यनयाप्रवेशाद्द्रव्याथको भवति भेदगुणोऽप्यभेदात् ॥ द्रव्यादिभावमननादपरो निरुक्तो ऽशुद्धोऽन्यनीतिघटनाश्च तथाविधोऽपि ॥२८६॥ नो सङ्ग्रहे घटपटादिविशेषबुद्धेलापो मतोऽनुभवबाधभयाबुधानाम् ।।
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy