Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 266
________________ । लिङ्गदोषोपदर्शनम् ॥ लिङ्गस्य दोष इह जैनमते त्रिधैवा नैकान्तिकोऽभिलषितो व्यभिचारनामा ॥ तत्रादिमो भवति साध्यविपर्ययाभ्यामेकत्र धामणि घटा गमकस्य हेतोः॥१२६०॥ सन्दिग्धनिश्चयप्रभेदत इष्यतेऽसौ जनैर्दिधा भवति तद्वयतोऽत्र यस्मात् ।। ताख्यबोधजननप्रतिबन्धतो न व्याप्तिप्रथा न च तथाऽनुमितिस्तदुत्था ॥२६॥ सन्देहहेतुरत एव च कीर्त्यतेऽसौ साधारणात्मकतयोभयबोधकत्वात् ॥ यत्रोभयोस्सहचरप्रतिलम्भमात्रं तव संशयमतिः प्रथिता नयज्ञैः ॥ २६२ ॥ सन्दिग्धसंज्ञकतया व्यभिचारिहेतुः रेतावता जिननयेऽपि मतो नयज्ञैः ॥ एकान्तता नियम एव ततो विरोधेडनैकान्तिकत्ववचनञ्च तथाऽत्र योगात् ॥२६३॥ साध्येन नैव सहवृत्तिरसौ विरुद्धो हेतुहितीय इह लिङ्गगतस्तु दोषः ।। तर्कप्रबोधविगमोऽभिमतस्ततोऽपि नो संशयात्मकमतिप्रवणो विरुद्धः ॥ २६४ ।। किन्त्वस्य साध्यविरहेण विनोपपत्ति वास्त्यतो भवति तद्विरहानुमाऽत्र ॥

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286