________________
। लिङ्गदोषोपदर्शनम् ॥
लिङ्गस्य दोष इह जैनमते त्रिधैवा
नैकान्तिकोऽभिलषितो व्यभिचारनामा ॥ तत्रादिमो भवति साध्यविपर्ययाभ्यामेकत्र धामणि घटा गमकस्य हेतोः॥१२६०॥ सन्दिग्धनिश्चयप्रभेदत इष्यतेऽसौ
जनैर्दिधा भवति तद्वयतोऽत्र यस्मात् ।। ताख्यबोधजननप्रतिबन्धतो न
व्याप्तिप्रथा न च तथाऽनुमितिस्तदुत्था ॥२६॥ सन्देहहेतुरत एव च कीर्त्यतेऽसौ
साधारणात्मकतयोभयबोधकत्वात् ॥ यत्रोभयोस्सहचरप्रतिलम्भमात्रं तव संशयमतिः प्रथिता नयज्ञैः ॥ २६२ ॥ सन्दिग्धसंज्ञकतया व्यभिचारिहेतुः रेतावता जिननयेऽपि मतो नयज्ञैः ॥ एकान्तता नियम एव ततो विरोधेडनैकान्तिकत्ववचनञ्च तथाऽत्र योगात् ॥२६३॥ साध्येन नैव सहवृत्तिरसौ विरुद्धो हेतुहितीय इह लिङ्गगतस्तु दोषः ।। तर्कप्रबोधविगमोऽभिमतस्ततोऽपि
नो संशयात्मकमतिप्रवणो विरुद्धः ॥ २६४ ।। किन्त्वस्य साध्यविरहेण विनोपपत्ति
वास्त्यतो भवति तद्विरहानुमाऽत्र ॥