Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
(२३२)
न्यायसिन्धौ.
किश्चास्य साध्यविरहप्रतिबन्धतो जैरिष्टं विरुद्ध इति नाम निजार्थयुक्तम् ॥ २६५ ।। अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो दोषो द्विधा जिनमतेऽभिमतो नयज्ञैः ॥ वादिद्वयान्यतरभेदबलात्स्वरूपा
द्धत्वप्रसिद्धिरिति सोऽभिमतो न चान्यः २६६ पक्षे तु हेतुविरहोऽभिमतस्स्वरूपासिद्धिनयेऽक्षचरणानुमते न जैनैः यस्मान्न पक्षघटनामतिराहतानां हेतौ मताऽनुमितिहेतुतया तृतीया ॥ २६७ ॥ बाधस्तु दर्शितदिशा ननु पक्षदोषो
नो हेतुदोष इति तद्भजनं यथार्थम॥ दोषो न चेष्ट इह सत्प्रतिपक्षनामा
नो न्यूनताविभजने तत आर्हतानाम् ॥२६८॥ दृष्टान्तदोषभजना नवधाऽन्वयेन
स्यादत्र तावदथ च व्यतिरेकतोऽपि ॥ दृष्टान्तामणि मतः प्रथमस्वसिद्धि
स्साध्यस्य सिद्धिजनकस्य तथोभयस्य ॥२६९॥ लिङ्गस्य लिङ्गिन इहाभिमतश्च तत्र
सन्देह एवमुभगेरपि सम्मतस्सः ॥ सोनन्वयश्च कथितोऽकथितान्वयश्च स्याद्व्यत्ययात्तदुभयान्वयदर्शनश्च ॥ १२७० ॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286