Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 276
________________ ॥ नयनिरूपणम् ॥ (२४१) Vvvvvvvvvvvvvvvvvvvvvvv एतन्नयप्रकृतिकस्तु भवेन्नयस्स विज्ञेन भर्तृहरिणा य इहोपदिष्टः ॥ किन्त्वस्य सङ्ग्रहनयप्रकृतित्वमेवं शब्दोत्मविश्वमननप्रगुणत्वयोगात् ॥१३१५॥ ब्रह्मस्वरूपमपि तेन मतश्च शब्द आँकाररूपमिति तजनितं हि विश्वम् ॥ शब्दात्मकं प्रणवरूपविभुस्वसिद्धब्रह्मात्मतत्त्वमननेन मतेऽस्य मुक्तिः ॥१३१६॥ ज्ञानं तथा किमपि शब्दसमन्वयेन, नैवान्तरा भवति भ हरेमते वै नो निर्विकल्पकमतिस्तत एव तस्मि न्नो वा विशेषणमतेस्तु विशिष्टबुद्धिः ॥१३१७॥ सौत्रान्तिकस्य तु मते ऋजुसूत्रमूले, या निर्विकल्पकमतिः प्रथमाऽक्षमात्रात् ॥ सेव प्रमा भवति शब्दघटाविहीना तत्खण्डनं भवति भर्तृहरेमते च ॥१३१८॥ व्युत्पत्तिभेदबलतः खलु शब्दभेदा दर्थप्रभेदघटनानिपुणो नयज्ञैः॥ उक्तो नयस्समभिरूढ इति प्रसिद्धो रूढिन्न शक्तिरिह केवलमत्र योगः॥१३१९।।

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286