________________
॥ नयनिरूपणम् ॥
(२४१)
Vvvvvvvvvvvvvvvvvvvvvvv
एतन्नयप्रकृतिकस्तु भवेन्नयस्स विज्ञेन भर्तृहरिणा य इहोपदिष्टः ॥ किन्त्वस्य सङ्ग्रहनयप्रकृतित्वमेवं
शब्दोत्मविश्वमननप्रगुणत्वयोगात् ॥१३१५॥ ब्रह्मस्वरूपमपि तेन मतश्च शब्द
आँकाररूपमिति तजनितं हि विश्वम् ॥ शब्दात्मकं प्रणवरूपविभुस्वसिद्धब्रह्मात्मतत्त्वमननेन मतेऽस्य मुक्तिः ॥१३१६॥ ज्ञानं तथा किमपि शब्दसमन्वयेन,
नैवान्तरा भवति भ हरेमते वै नो निर्विकल्पकमतिस्तत एव तस्मि
न्नो वा विशेषणमतेस्तु विशिष्टबुद्धिः ॥१३१७॥ सौत्रान्तिकस्य तु मते ऋजुसूत्रमूले,
या निर्विकल्पकमतिः प्रथमाऽक्षमात्रात् ॥ सेव प्रमा भवति शब्दघटाविहीना तत्खण्डनं भवति भर्तृहरेमते च ॥१३१८॥ व्युत्पत्तिभेदबलतः खलु शब्दभेदा
दर्थप्रभेदघटनानिपुणो नयज्ञैः॥ उक्तो नयस्समभिरूढ इति प्रसिद्धो रूढिन्न शक्तिरिह केवलमत्र योगः॥१३१९।।