Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 4
________________ प्रथमः प्रकाशः। विपर्ययः । यथा शुक्तिकायामिदं रजतमिति ज्ञानं । अत्रापि सादृश्यादिनिमित्तवशाच्छुक्तिविपरीते रजते निश्चयः । किमित्यालोचनमात्रमनध्यवसायः । यथा पथि गच्छतस्तुणस्पर्शादिज्ञानं । इदं हि नानाकोव्यवलंबनाभावान संशयः । विपरीतैककोटिनिश्चयाभावान्न विपर्ययः । इति पृथगेव । एतानि च स्वविषयप्रमितिजनकत्वाभावादप्रमाणानि ज्ञानानि भवंति, सम्यग्ज्ञानानि तु न भवंतीति सम्यक्पदेन व्युदस्यते ॥ ज्ञानपदेन प्रमातुः प्रमितेश्च व्यावृत्तिः । अस्ति हि निर्दोषत्वेन तत्रापि सम्यक्त्वं, न तु ज्ञानत्वं । ननु प्रमितिकर्तुः प्रमातुतृित्वमेव न ज्ञानत्वमिति, यद्यपि ज्ञानपदेन प्रमातुर्व्यावृत्तिस्तथापि प्रमितिर्न व्यावर्तयितुं शक्या, तस्या अपि सम्यग्ज्ञानत्वादिति चेद् भवेदेवं यदि भावसाधनमिह ज्ञानपदं । करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति । " करणाधारे चानट्" २।३।११२ इति करणेऽप्यनट्प्रत्ययानुशासनात् । भावसाधनं तु ज्ञानपदं प्रमितिमाह । अन्यद्धि भावसाधनात्करणसाधनं पदं । एवमेव प्रमाणपदमपि प्रमीयतेऽनेनेति करणसाधनं कर्तव्यं; अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याऽघटनात् । तेन प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणमिति सिद्धं । तदुक्तं प्रमाणनिर्णये " इदमेव हि प्रमाणस्य प्रमाणत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन करणत्वं" इति । नन्वेवमप्यक्षलिंगादावतिव्याप्तिलक्षणस्य तत्रापि प्रमितिरूपं फलं प्रति करणत्वात् । दृश्यते हि-चक्षुषा प्रमीयते, धूमेन प्रमीयते, शब्देन प्रमीयते इति व्यवहारः, इति चेन्न; अक्षादेः प्रमिति प्रत्यसाधकतमत्वात् । तथा हि-- प्रमितिः प्रमाणस्य फलमिति न कस्यापि विप्रतिपत्तिः । सा चाज्ञाननिवृत्तिरूपा, तदुत्पत्तौ करणेन भवता सता तावदज्ञानविरोधिना भवि १ जैनेंद्रव्याकरणस्येदं सूत्र।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42