Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 11
________________ न्यायदीपिका। .. तत्रंद्रियार्थसमवधानसमनंतरसमुत्थसत्तालोचनानंतरभावी सत्तावांतरजातिविशिष्टवस्तुमाही ज्ञानविशेषोऽवग्रहः । यथाऽयं पुरुष इति । नायं संशयः, विषयांतरव्युदासेन स्वविषयनिश्चायकत्वात् । तद्विपरीतलक्षणो हि संशयः । यद्राजवार्तिकं " अनेकार्थानिश्चितापर्युदासात्मकः संशयः, तद्विपरीतोऽवग्रहः " इति । भाष्यं च " संशयो हि निर्णयविरोधी न त्ववग्रहः " इति। ___ अवग्रहगृहीतार्थसमुद्भूतसंशयनिरासाय यत्न ईहा । यथा पुरुष इति निश्चितेऽर्थे किमयं दाक्षिणात्य उतौदीच्य इति संशये सति दाक्षिणात्येन भवितव्यमिति तन्निरासायेहाख्यं ज्ञानं जायत इति । भाषादिविशेषनिर्लानाद्याथात्म्यावगमनमवायः। यथा दाक्षिणात्य एवायमिति । कालांतराविस्मरणयोग्यतया तस्यैव ज्ञानं धारणा । यद्वशादुत्तरकालेपिस इत्येवं स्मरणं जायते । ___ ननु पूर्वपूर्वज्ञानगृहीतार्थग्राहकत्वादेतेषां धारावाहिकवदप्रामाण्यप्रसंगः इति चेन विषयभेदेनागृहीतग्राहकत्वात् । तथाहि-योऽवग्रहस्य विषयो नासावीहायाः, यः पुनरीहाया नायमवायस्य, यश्चावायस्य नैष धारणाया इति परिशुद्धप्रतिभानां सुलभमेवैतत् । तदेतदवग्रहादिचतुष्टयमपि यदेंद्रियेणजन्यते तदेंद्रियप्रत्यक्षमित्युच्यते यदा पुनरनिंद्रियेण तदानिंद्रियप्रत्यक्षं गीयते । इंद्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पंच । अनिद्रियं तु मनः । तद्वयनिमित्तकमिदं लोकसंव्यवहारे प्रत्यक्षमिति प्रसिद्धत्वात्सांव्यवहारिकप्रत्यक्षमुच्यते । तदुक्तं " इंद्रियानिद्रियनिमित्तं देशतः सांव्यवहारिकं " इदं चामुख्यप्रत्यक्षमुपचारसिद्धत्वात् । वस्तुतस्तु परोक्षमेव मतिज्ञानत्वात् । कुतो नु खल्वेतन्मतिज्ञानं परोक्षमित्युच्यते " आद्ये परोक्षं" इति सूत्रणात् , आये मतिश्रुते परोक्षमिति हि सूत्रार्थः । उपचारमूलं पुनरत्र देशतो वैशद्यमिति कृतं विस्तरेण । सर्वतो विशदं पारमार्थिकं प्रत्यक्षं । यज्ज्ञानं साकल्येन स्पष्टं तत्पारमार्थिकप्रत्यक्षं मुख्यप्रत्यक्षमिति यावत् । तद् द्विविधं सकलं विकलं

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42