Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 35
________________ ३४ न्यायदीपिका । धूम इत्यपि संभवात् । वह्निमात्रस्य तु धूमविशेषं प्रति व्यापकत्वमेव, अनुमातुस्तावन्मात्रापेक्षत्वात् । ततो यो यो धूमवानसावसावग्निमान्, यथा महानस इत्येवं सम्यग्दृष्टांतवचनं वक्तव्यं । विपरीतवचनं तु दृष्टांताभास एवेत्ययमसम्यग्वचनरूपोऽन्वयदृष्टांताभासः । व्यतिरेकव्याप्तौ तु व्यापकस्याग्रभावो व्याप्यः, व्याप्यस्य धूमस्याभावो व्यापकः तथा सति यंत्र यत्राग्न्यभावस्तत्र तत्र धूमाभावो, यथा हृद इत्येवं वक्तव्यं । विपरीतकथनं त्वसम्यग्वचनत्वादुदाहरणाभास एव । अन्वयव्याप्तौ व्यतिरेकदृष्टांतवचनं, व्यतिरेकव्याप्तावन्वयदृष्टांतवचनं चोदाहरणाभासौ | स्पष्टमुदाहरणं । ननु गर्भस्थः श्यामो मैत्रतनयत्वात्सांप्रत मैत्रतनयवदित्याद्यनुमानप्रयोगे पंचसु मैत्रतनयेष्वन्वयदृष्टांतेषु यत्र यत्र मैत्रतनयत्वं तत्र तत्र श्यामत्वमित्य - म्वयव्याप्तेः, व्यतिरेकदृष्टांतेषु गौरेष्वमैत्रतनयेषु सर्वत्र यत्र यत्र श्यामत्वं नास्ति तत्र तत्र मैत्रतनयत्वं नास्तीति व्यतिरेकव्याप्तेश्च संभवान्निश्चितसाधने गर्भस्थमैत्रतनये पक्षे साध्यभूतश्यामत्व संदेहस्य गुणत्वात्सम्यगनुमानं प्रसज्येतेति - चेन्न । दृष्टांतस्य विचारांतर बाधितत्वात् । तथा हि साध्यत्वेनाभिमतमिदं हि श्यामरूपं कार्ये सत् स्वसिद्धये कारणमवेक्षते । तच्च कारणं न तावन्मैतनयत्वं विनापि तदिदं पुरुषांतरे श्यामत्वदर्शनात् । न हि कुलालचक्रादिक मंतरेणापि संभविनः पटस्य कुलालादिकं कारणं । एवं मैत्रतनयत्वस्य श्यामत्वं प्रत्यकारणत्वे निश्चिते यत्र यत्र मैत्रतनयत्वं न तत्र तत्र श्यामत्वं किंतु यत्र यत्र श्यामत्वस्य कारणं विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्तत्र तत्र तस्य कार्ये श्यामत्वमिति सामग्रीरूपस्य विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्य श्यामत्वं प्रति व्याप्यत्वं । स तु पक्षे न निश्चीयते इति संदिग्धासिद्धः । मैत्रतनयत्वं त्वकारणत्वादेव श्यामत्वं कार्य न गमयेदिति । कश्चिन्निरुपाधिकसंबंधो व्याप्तिरित्यभिधाय साधनाव्यापकत्वे सति साध्यसमवाप्तिरुपाधिरित्यभिधत्ते । सोयमन्योन्याश्रयः । प्रपंचितमेतदुपाधिनिराकर काकाकायामिति विरम्यते । साधनवत्तया पक्षस्य दृष्टांत साम्यक

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42