Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 33
________________ न्यायदीपिका। इतरतत्पुत्रे वर्तते । विपक्षे अश्यामे वर्तते नापीति शंकाया अनिवृत्त: शंकितविपक्षवृत्तिकः । अपरमपि शंकितविपक्षवृत्तिकस्योदाहरणं । अर्हन् सर्वज्ञो न भवति वक्तृत्वाद्र्थ्यापुरुषवदिति । वक्तृत्वस्य हि हेतोः पक्षीकृतेऽर्हति, सपक्षे रथ्यापुरुषे यथा वृत्तिरस्ति तथा विपक्षे सर्वज्ञेऽपि वृत्तिः संभाव्यते, वक्तृत्वज्ञातृत्वयोरविरोधात् । यद्धि येन सह विरोधि तत्खलु तद्वति न वर्तते। न च वचनज्ञानयोर्लोके विरोधोऽस्ति, प्रत्युत ज्ञानवत एव वचनसौष्ठवं स्पष्टं दृष्टं । ततो ज्ञानोत्कर्षवति सर्वज्ञे वचनोत्कर्षे कानुपपत्तिरिति । __ अप्रयोजको हेतुरकिंचित्करः । स द्विविधः, सिद्धसाधनो बाधितविषयश्च। तत्राद्यो यथा, शब्दः श्रावणो भवितुमर्हति शब्दत्वादिति । अत्र श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वाद्धेतुरकिंचित्करः । बाधितविषयस्त्वनेकधा । कश्चित्प्रत्यक्षबाधितविषयः । यथा, अनुष्णोऽग्निर्द्रव्यत्वादित्यत्र द्रव्यत्वहेतुः । तस्य विषयत्वेनाभिमतमनुष्णत्वमुष्णत्वग्राहकेण स्पार्शनप्रत्यक्षेण बाधितं । ततः किंचिदपि कर्तुमशक्यत्वादकिंचित्करो द्रव्यत्वहेतुः । कश्चित्पुनरनुमानबाधितविषयः । यथा, अपरिणामी शब्दोऽकृतकत्वादिति । अत्र परिणामी शब्दः प्रमेयत्वादित्यनुमानेन बाधितविषयत्वं । __ कश्चिदागमबाधितविषयः । यथा, प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवदिति । अत्र धर्मः सुखप्रद इत्यागमः । तेन बाधितविषयत्वं हेतोः । कश्चित्स्ववचनबाधितविषयः यथा मे माता वंध्या पुरुषसंयोगेऽप्यगर्भवात् प्रसिद्धवंध्यावत् । एवमादयोऽप्यकिंचित्करविशेषाः स्वयमूह्याः । तदेवं हेतुप्रसंगाद्धत्वाभासा अवभासिताः । ननु व्युत्पन्नं प्रति यद्यपि प्रतिज्ञाहेतुभ्यामेव पर्याप्तं । तथापि बालबोधार्थमुदाहरणादिकमभ्युपगतमाचार्यैः । उदाहरणं च सम्यग्दृष्टांतवचनं । कोऽयं दृष्टांतो नामेति चेदुच्यते । __व्याप्तिसंप्रतिपत्तिप्रदेशो दृष्टांतः । व्याप्तिर्हि साध्ये वह्नयादौ सत्येक साधनं धूमादिरस्ति, असति तु नास्तीति साध्यसाधननियतता साहचर्यलक्षणा। एनामेव साध्यं विना साधनस्याभावादविनाभावमिति च व्यपदि

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42