Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 40
________________ तृतीयः प्रकाशः। ऋजुसूत्रनयस्तु परमपर्यायार्थिकः । स हि भूतत्वभविष्यत्वाभ्यामपरामृष्टं शुद्धवर्तमानकालावच्छिन्नं वस्तुरूपं परामृशति । तन्नयाभिप्रायेण बौद्धाभिमतक्षणिकत्वसिद्धिः । एते नयाभिप्रायाः सकलस्वविषयाशेषात्मकमनेकांतं प्रमाणविषयं विभज्य व्यवहारयति । __स्यादेकमेव द्रव्यात्मना वस्तु, नो नाना । स्यान्नानैव पर्यायात्मनो नैकमिति । तदेतत्प्रतिपादितमाचार्यसमंतभद्रस्वामिभिः "अनेकांतोsप्यनेकांतः प्रमाणनयसाधनः । अनेकांतः प्रमाणात्ते तदेकांतोर्पितानयात् ॥ १॥” इति । अनियतानेकधर्मवद्वस्तुविषयत्वात्प्रमाणस्य नियतैकधर्मवद्वस्तुविषयत्वाच्च नयस्य । यद्येनामाहती सरणिमुलंध्य सर्वथैकमेधाद्वितीयं ब्रह्म नेह नानास्ति किंचन, कथंचिदपि नाना नेत्याग्रहः स्यात्तदेतदर्थाभासः । एतत्प्रतिपादकमतिवचनमागमाभासः, प्रत्यक्षेण सत्यं भिदा तत्त्वं भिदेत्यादिनागमेन च बाधितविषयत्वात् । ___ सर्वथा भेद एव न कथंचिदप्यभेद इत्यत्राप्येवमेव विज्ञेयं, सद्रूपेणापि भेदेऽसतः अर्थक्रियाकारित्वासंभवात् । ननु प्रतिनियताभिप्रायगोचरतया पृथगात्मनां परस्परसाहचर्यानपेक्षाणां मिथ्याभूतानामेकत्वादीनां धर्माणां साहचर्यलक्षणसमुदायोऽपि मिथ्यैवेति चेत्तदंगीकुर्महे, परस्परोपकार्योपकारकभावं विना स्वतंत्रतया नैरपेक्ष्यापेक्षायां पटस्वभावविमुक्तस्य तंतुसमूहस्य शीतनिवारणाद्यर्थक्रियावेदकत्वानेकत्वानामर्थक्रियायां सामर्थ्याभावास्कथंचिन्मिथ्यात्वस्यापि संभवात् । तदुक्तमाप्तमीमांसायां स्वामिसमंतभद्रा'चार्यैः । “मिथ्यासमूहो मिथ्याचेन मिथ्र्यकांततास्ति नः । निरपेक्षा नया मिथ्याः सापेक्षा वस्तुतोऽर्थकृत् ॥ १॥"इति । ___ ततो नयप्रमाणाभ्यां वस्तुसिद्धिरिति सिद्धः सिद्धांतः । इति पर्याप्तमागमप्रमाणं । इति तृतीयः प्रकाशः । इति श्रीपरमार्हताचार्यधर्मभूषणयतिविरचिता न्यायदीपिका समाप्ता ।

Loading...

Page Navigation
1 ... 38 39 40 41 42